________________
५१२ ] खवगसेढी
[ नाथ ६७ भावत्वेऽपि नित्यत्वेन कार्यत्वाभावानाऽनित्यत्वम् । न च तथापि बुद्धयादिविनाशे तद्वत आत्मनोऽपि नाशः स्यादेवेति वाच्यम् , गुणगुणिनोस्तादात्म्याऽभावात् ।
अत्र प्रतिविधीयते-'यत्तावदुक्तम् 'नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वादित्यत्रा-ऽऽत्मनः किं सर्वथा भिन्नानां बुद्धयादिविशेषगुणानां सन्तानस्योच्छेदः साध्यते, उता-ऽभिन्नानाम् , आहोस्वित् कश्चिद् भिन्नानाम् ?
तत्र प्रथमपक्षे तावदाश्रयाऽसिद्धो हेतुः, आत्मतोऽत्यन्तभिन्नानां बुद्धयादिविशेषगुणानामसत्कल्पत्वात् सन्तानस्य धर्मिणोऽसिद्धः । तथा तेषां भवन्मते स्वसंवेदितत्वाऽनभ्युपगमात् ज्ञानान्तरग्राह्यात्वे चा-ऽनवस्थादिदोषप्रसङ्गात् , अज्ञातानाञ्च सचासिद्धः पुनरप्याश्रयासिद्धः 'सन्तानत्वाद् ' इति हेतुः।
___ ना-ऽपि द्वैतीयिकः पक्षः कक्षीकरणाहः, आत्मनः सर्वथा- भिन्नानां बुयादिविशेषगुणानामुच्छेदसाधने तद्वत आत्मनोऽप्युच्छेदः स्यात् । ततश्च कस्याऽसो मोक्षः ?
नाऽपि तार्तीयिकः पक्षः, कथञ्चिद्भदस्य तु नैयायिक-वैशेषिकादिभिरनभ्युपगमात् , तदभ्युपगमेऽपि सर्वथा तदु छेदाऽसिद्धिः, कथञ्चिदनुच्छेदस्याऽप्येवं प्रसिद्धः । तथा-ऽभ्युपगमे चा-ऽस्मन्मतमेवा-ऽङ्गीकृतं प्रेक्षावता । अभ्युपगम्यत एव हि स्याद्वादवादिभिगुणगुणिनोः कथिश्चद्भेदः, तेन "नहम्मि य छ उमथिए नाणे” इत्यागमात् क्षायोपशमिकमन्यादिज्ञानानां विनाशेऽपि मोक्षावस्थायां क्षायिककेवलज्ञानस्या-ऽनुच्छेदः ।।
किञ्च सन्तानत्वं हेतुत्वेनोपादीयमानं किं सामान्यरूपमभिप्रेतम् , उन विशेषरूपम् ? तत्र प्रथमपक्षे स्वरूपासिद्धो हेतुः, बुद्धयादिविशेषगुणेषु तेजोद्रव्यविशेषे च सत्तासामान्य व्यतिरेकेणाऽपरसामान्यस्याऽसम्भवात् । न च सन्तानत्वस्य सत्तारूपपरसामान्यरूपत्वे न तस्य स्वरूपासिद्धत्वमिति वाच्यम् , यतः सत्तासामान्यरूपत्वे सन्तानत्वस्य 'सत् सत्' इति प्रत्ययहेतुत्वमेव स्यात्, न पुनः 'सन्तानः सन्तानः' इति प्रत्ययहेतुत्वम् , अन्यथा द्रव्यगुणकर्मस्वरूपादेव 'सत् सत्' इति प्रत्ययोपपत्तेः सत्ताकल्पनाया वैयर्थ्यम् ।
किश्च सत्तासामान्यरूपत्वे गगनादिना व्यभिचारः, अत्यन्नोच्छेदा-ऽभावेऽपि गगनादौ सत्तासामान्यरूपस्य सन्तानत्वस्य हेतोः सद्भावात् ।।
अपि च सन्तानत्वसामान्यस्य बुद्धयादिषु वृत्तिमत्ता समवायेन भवतेष्यते, समवायस्य च सम्मतितर्कादिवृत्तिग्रन्थेषु न्यक्षेण निषिद्धत्वात् पुनरपि सन्तानत्वहेतोः स्वरूपासिद्धता ।
नाऽप्यपरसामान्यरूपं सन्तानत्वं सम्भवति, यतो विशेषगुणाश्रिता जातिः खलु सन्तानत्वं न साधर्म्यदृष्टान्ते तेजोद्रव्ये प्रदीपादावस्ति, गुणवृत्तित्वात् , तेन साधनविकलो दृष्टान्तः ।
(१) पृ० ५०८ पं० २५। (२) साध्याभावे-ऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org