________________
नैयायिकानां पूर्वपक्ष: ]
मोक्षस्वरूपविचार:
करणोदासीनता तेषां भवति, भृष्टानामिव बोजानामङ्कुरकरणकौशलहानि:, यतः सामग्री कार्यस्य जनिका, न केवलं कारणमतो न कर्माण्येव केवलानि फलोपभोग योग्यशरोरेन्द्रियादिजन्मनिमित्ततामुपयान्ति, किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि तदुकम् – 'अविधातृष्णे धर्माधर्मौ च जन्मकारण " मिति तत्वविदश्च तत्त्ववित्वादेव नाऽविद्या मिथ्याज्ञानात्मिका भवति, दोषाणां तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्माधर्मौ न बन्धाय कल्पेते, न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बोजानि जनयितुमुत्सहन्ते, भृष्टबीजानामपि स्वरूपशक्तिरपि तानवं गता, तद्वत्कर्मणां स्वरूपशक्ति शैथिल्यं मा भूत्, तथापि कुसूलवर्तिबीजवत् सहकारिवैधुर्यात् कार्याऽनारम्भः ।" इति ।
तन्न, अनुत्पादितकार्यस्य कर्मलक्षणस्य जन्यभावस्या- प्रक्षयाद् नित्यत्वप्रसक्तेः, प्रतियोगितासम्बन्धेन ध्वंसत्वावच्छिन्न प्रति तादात्म्यसम्बन्धेन जन्यभावत्वेन हेतुत्वमिति कार्यकारणभावलोपपत्तेश्च ।
नन्वनागतयोर्धर्माऽर्धमयोरुत्पत्तिप्रतिषेधे सति तचज्ञानिनां नित्य नैमित्तिकाऽनुष्ठानं किमर्थम् ? इति चेत्, प्रत्यवायपरिहारार्थमिति ब्रूमः । न च मिथ्याज्ञाना-ऽभावे दुष्कर्मणोऽभावात् कस्य परिहारार्थं नित्यनैमित्तिकाऽनुष्ठानमिति वाच्यम्, यतो मिथ्याज्ञानाऽभावे 'काम्यनिषिद्धाचरणनिमित्तस्यैव प्रत्यवायस्याऽभावः, न पुनर्नित्यनैमित्तिकादिविहिताऽननुष्ठान निमित्तस्य, अकुर्वन् विहितं कर्म प्रत्यवायेन लिप्यत इत्यागमात् । तदुक्तञ्च—नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ।
तथा च
ज्ञानं च विमलीकुवंन्नभ्यासेन तु पाचयेत् ॥ १ ॥ अभ्यासात् पक्क विज्ञानः कैवल्यं लभते नरः । केवलं काम्ये निषिद्धे च प्रवृत्तिप्रतिषेघतः ॥२॥ नित्य नैमित्तिके कुर्यात् प्रत्यवायजिहासया । मोक्षार्थी न प्रवर्त्तेत तत्र काम्य - निषिद्धयोः ॥ १ ॥
[ ५११
न चेत्थं मिथ्याज्ञानध्वंसादिक्रमेण विशेगुणोच्छेदविशिष्टात्मस्वरूपमुक्त्यभ्युपगमे तादृशमुक्तेस्तवज्ञान कार्यत्वादनित्यत्वमिति वाच्यम्, यतः किं विशेषगुणोच्छेदस्याऽनित्यत्वमापाद्यते, तद्विशिष्टात्मनो वा ? न तावत् प्रथमो विकल्पः यतो विशेषगुणोच्छेदः प्रध्वंसरूपः । जन्यस्य भावस्यैव विनाशित्वं प्रसिद्धम्, न तु ध्वंसस्य । नाऽपि द्वितीयविकल्पः, यतस्तद्विशिष्टात्मनो
(१) काम्यं = यागः, निषिद्धं विप्रवधादि ।
(२) कैवल्यं = सकलात्मविशेषगुणोच्छेद विशिष्टात्मस्वरूपं निःश्रेयसम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org