________________
५१. ]
खवगसेढी
[गाथा-२६७ प्रक्षये कर्मान्तरस्योत्पत्तेरवश्यंभावात् संसारानुच्छेदः । अयं भावः-"मा हिंस्यात् सर्वभूतानि" इति श्रुतिसद्भावात् प्राणिमात्रस्य वधो-ऽनिष्टः । उपभोगस्तु प्राण्युपमर्दनादिकं विना न संभवतीत्युपार्जितप्राणिवधादिनिमित्तककर्मफलोपभोगाय जन्मान्तरमावश्यकम् । तत्राऽप्युपभोगेन पुनः प्राणिवधादिनिमित्तककर्मोपार्जनं स्यात् , तत्फलोपभोगाय पुनर्जन्मान्तरमावश्यकमिति कथं संसारस्योच्छेदः स्यादिति वाच्यम् , 'समाधिवलादुत्पन्नतत्त्वज्ञानस्याऽवगतकर्मसामोत्पादितयुगपदशेषशरीरद्वाराऽवाप्ताऽशेषभोगस्य कर्मान्तरोत्पत्तिनिमित्तमिथ्याज्ञानजनिताऽनुसन्धानविकलस्य कर्मान्तराऽनुत्पत्त्या संसारच्छेदोपपत्तेः ।।
एतदुक्तं भवति-समाधिबलाल्लब्धतच्चज्ञानो योगी निखिलनिजकर्मसामाऱ्या ज्ञात्वा तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीरादीनि निर्माय सकलकर्मफलमनुभवति । न च तत्प्रवृत्तिः पुनर्जन्मने कल्पते, क्षीणक्लेशत्वात् , यदुक्तं श्रीगोतमेन “न प्रवृत्तिः प्रतिसन्धानाय क्षीणक्लेशस्य ।” (गो०४-१-६४) इति ।
न च मिथ्याज्ञानाभावे तत्वज्ञानिन उपभोगा-ऽभिलाषस्यैवाऽसम्भवात् कायव्यूहद्वारा सञ्चितयोर्धर्माधर्मयोरुपभोगो नोपपद्यत इति वाच्यम् , यत उपभोगं विना कर्मणां प्रक्षयाऽनुपपत्तितस्तत्वज्ञानिनस्तदुपभोगा-ऽभिलापाभावेऽपि कर्मक्षयार्थित्वेन तस्य तत्र' प्रवृत्तिर्घटते, वैद्योपदेशेना-ऽऽतुरस्येवोषधाचरणे, यथैव ह्यातुरस्याऽनभिलपितकटुकक्काथाद्याचरणे व्याधिप्रक्षयार्थ प्रवृत्तिदृश्यते, तद्वयतिरेकेण व्याधिप्रक्षयोऽनुपपन्नः, तथैवा-त्राऽपि । ननु तत्वज्ञानादेव सश्चितकर्मक्षयोऽस्तु, यदुक्तं व्यासमुनिना भगवद्गीतायाम्
“यथैधांसि समिडोऽग्निर्भस्मसात् कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥१॥" इति चेत् , न, तत्वज्ञानस्य साक्षात् कर्मविनाशे व्यापारा-ऽभावात् । तत्वज्ञानं हि निखिलशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्याप्रियत इत्यग्निरिवोपचर्यत इति व्याख्येयं भगवद्गीतावचनम् , न तु साक्षात् । ततश्च 'नाऽभुक्तं कर्म' इत्यादिना सह “यथैधांसि” इत्याद्यस्य न कश्चिद् विरोधः । न च तचज्ञानिनां कर्मविनाशस्तत्वज्ञानाद्भवतु, इतरेषान्तूपभोगादिति वाव्यम् , ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणा-ऽभावात् ।
केचित्त विद्यमानान्यपि कर्माणि न जन्मान्तरशरीराण्यारभन्ते, मिथ्याज्ञानजनितसंस्कारस्य सहकारिणो विरहादित्याहुः, तदुक्तं न्यायमञ्जर्या श्रीजयन्तभट्टै:-"तदन्ये न मन्यन्ते, न सर्वात्मनाकर्मणां दाहः, किन्तु स्वरूपेण सतामपि सहकारिवैकल्यात् स्वकार्य
१ उक्तं च प्रशस्तपादभाष्यव्योमवत्या-समाधिबलादुत्पन्नतत्त्वज्ञानो हि कर्मणाश्च साध्यमर्य विदित्वा युगपच्छरीराणि निर्मायोपभोग.........।" इति । (२) कर्मफलोपभोगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org