________________
नैयायिकानां पूर्वपक्ष: ]
[ ५०९
तच्च
न च सन्तानोच्छेदे कश्चिद् हेतुर्वाव्यः, निर्हेतुकविनाशस्य प्रतिषेधादिति वाच्यम्, ज्ञानस्य मिथ्याज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वेन प्रतिपादनात् । उपलब्धञ्च मिथ्याज्ञाननिवृत्तौ सम्यग्ज्ञानस्य सामर्थ्यं शुक्तिकादौ । न चोत्तरकालभाविना मिथ्याज्ञानेनाऽपि सम्यग्ज्ञानस्य निवृत्तिः सम्भवति, तत्सन्तानोच्छेदस्य विवक्षितत्वात् । यथा हि सम्यग्ज्ञानाद् मिथ्याज्ञानसन्तानोच्छेदः क्रियते, नैवं मिथ्याज्ञानात् सम्यग्ज्ञान सन्तानोच्छेदः, सम्यग्ज्ञानस्य यथार्थ - विषयत्वेन बलीयस्त्वाद् । निवृत्रे च मिथ्याज्ञाने तन्मूलका रागादयोऽपयन्ति, कारणाभावे कार्यस्याऽनुत्पादात्, रागाद्यपाये च तत्कार्यरूपा मनोवाक्कायप्रवृत्तिर्व्यावर्तते, तद्व्यावृत्तौ च धर्माधर्म योरनुत्पत्तिः । आरब्धशरीरेन्द्रियविषय कार्ययोर्धर्माऽधर्मयोः सुखादिफलोपभोगात् प्रक्षयः, अनारब्ध-तत्कार्ययोश्च सञ्चितयोरपि तयोरुपभोगादेव प्रक्षय इति तच्चज्ञानस्य मिथ्याज्ञानव्यवच्छेदक्रमेण मोक्षहेतुत्वमस्ति । यदाहुन्यायभाष्यकाराः - "यदा तु तत्त्वज्ञानान्मिथ्याज्ञान'मपैति, तदा मिथ्याज्ञानापाये दोषा' अपयन्ति, दोषाऽपाये प्रवृत्ति रपैति, प्रवृत्यपाये जन्माऽपैति, जन्माऽपाये दुःख मपैति, दुःखापाये च आत्यन्तिको ऽपवर्गः निःश्रेयसमिति । ”
:
मोक्षस्वरूपविचारः
एवमेव वैशेषिकदर्शनप्रशस्तपादभाष्येऽपि प्रतिपादितम् - "ज्ञानपूर्वकान्तु कृतादसङ्कल्पित फलाद्विगुडे कुले जातस्य दुःखविगमोपाय जिज्ञासोराचार्यमुपसङ्गस्योत्पन्नषट्पदार्थतत्त्वज्ञानास्याऽज्ञाननिवृत्तौ विरक्तस्य रागद्वेषायभावात् तज्जयोधर्माधर्मोत्पत्तौ पूर्वसञ्चितयोश्चोपभोगान्निरोधे सन्तोषसुखं शरोरपरिच्छेदं चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते । तदा निरोधात् निर्बीजस्याSSत्मनः शरीरादिनिवृत्तिः, पुनः शरीराद्यनुस्पत्तौ ' दग्धेन्धनवदुपशमो मोक्ष इति । "
इहाऽऽरब्धशरीरादिधर्माधर्मवत् सचितयोरपि धर्मा-धर्मवोरुपभोगादेव प्रक्षयो भणितः, आगमश्चात्र “नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि "" इत्येवंरूप एतदर्थसंवादकः । अनुमानमप्यस्ति — पूर्वकर्माण्युपभोगादेव क्षीयन्ते, कर्मत्वात्, यद् यत् कर्म तत् तद् उपभोगादेव क्षीयते, यथा- Sऽरब्धशरीरं कर्म, तथा चैतत् कर्म । तस्मादुपभोगादेव क्षीयते कर्म । न चोपभोगात्
(१) देहादिष्वात्मबुद्धयादिकं मिध्याज्ञानम् (२) मिथ्याज्ञानादनुकूलेषु रागः, प्रतिकूलेषु च द्वेषः, रागद्वेषाधिकाराच्चाऽसूयेर्ष्या - माया लोभादयो दोषाः (३) इह प्रवृत्तिसाधनौ धर्माऽधर्मौ प्रवृत्तिशब्देनाऽभिहितौ यथाऽन्नसाधनाः प्राणाः “अन्नं वै प्राणिनः प्राणाः" इति । (४) शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावो जन्म ।" (५) बाधनालक्षणं प्रतिकूलवेदनीयं दुःखम् । (६) यथा दग्धेन्धनस्याऽनलस्योपशमः = लादिमीरहितस्याऽवस्थानम्, तद्वदत्यन्तं विशेषगुणैर्वियुक्तस्या - SS - त्मनो ऽवस्थानं मोक्ष इति । (७) उद्धृतोऽयं श्लोकः प्रशस्तपादभाष्यव्योमवत्यादावपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org