________________
५०८ ]
खवगसेढी
[ गाथा-२६७ इति सिध्यति,यदुक्तं श्रीजयन्तभट्टैायमञ्जर्याम्-"तदिति प्रक्रान्तस्य दुःखस्यावमर्शः न च मुख्यमेव दुःखं बाधनास्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव, तेन दुःखेन वियोगोऽपवर्गः, अस्ति च प्रलयवेलायामात्मनो दुःखवियोगः, स स्वपवर्गों न भवति, सर्गसमये पुनरक्षोणकर्माशयाऽनुरूपशरोरादिसम्बन्धे सति दुःखसम्भवादतस्तव्यावृत्त्यर्थमत्यन्तग्रहणम् , आत्यन्तिको दुःखव्यावृत्तिरपवर्गो न सावधिका । द्विविधदुःखावमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शादत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाऽभिधानानवानामात्मगुणानां बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्न-धर्मा-धर्म-संस्काराणां निर्मू लोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिको दुःखव्यावृत्तिर्नाऽवकल्पते ॥१॥ धर्माऽधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥२॥ तदुच्छेदे तु तत्कार्यशरोराद्यनुपप्लवात् । नात्मनः सुख-दुःखे स्त इत्यसो मुक्त उच्यते ॥३॥ इच्छा-द्वेष-प्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥ प्राणस्य क्षत्पिपासे द्वे लोभमोहौ च चेतसः।
शीता-Sऽतपो शरीरस्य षडूमिरहितः शिवः ॥५॥ तदेवं नवानामात्मगुणानां निमू लोच्छेदोऽपवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति-तदत्यन्तवियोगोऽपवर्ग इति ।”
एवं व्योमशिवाचार्यैरपि प्रशस्तपादभाष्यस्य व्योमवत्याख्यवृत्तौ प्रतिपादितम्-"नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्ष इति ।”
प्रमाणयन्ति च नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वादिति, नाऽयं हेतुरसिद्धः, व्याप्यत्वेनाऽभिमतस्य सन्तानत्वस्य बुद्धयादिलक्षणे पक्षे प्रवर्तमानत्वात् । नाऽपि विरुद्धः, सपक्षे प्रदीपादावुपलम्भात् । नाऽप्यनैकान्तिकः, विपक्षे परमावादाववृतेः, नाऽपि कालात्ययापदिष्टः, विपरीतार्थोपस्थापकयोः प्रत्यक्षा-ऽऽगमयोरनुपलम्भात् । नाऽपि सत्प्रतिपक्षः, साध्याभावसाधकाऽनुमाना-ऽसम्भवात् ।
___ आगमो-ऽप्यत्र "न ह वै सशरीरस्य प्रियाप्रययोरपहतिरस्ति, अशरीरं वावसन्तं प्रियाप्रिये न स्पशतः ।" इति सुखादेरभावबोधकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .