________________
सिद्धशिलानिरूपणम् ] सिद्धानामवस्थितिः
[५०७ "दग्धे बोजे यथाऽत्यन्तं प्रादुर्भवति ना-कुरः ।
कर्मयोजे तथा दग्धे नारोहति भवाङकुरः ॥१॥” इति । नन्वीपत्प्रागभारा किस्वरूपा ? इति चेत्, उच्यते-सवार्थसिद्धवरविमानावं लोकस्य मूर्धन्यायामविष्कम्भाभ्यां पश्चचत्वारिंशयोजनलक्षप्रमाणा (४५,००,०००), उत्तानच्छत्राकृतिः परिधिगणितेनैकोनपश्चाशदधिकद्विशतोत्तरत्रिंशत्सहस्राधिक वाचत्वारिंशच्छतसहस्राधिकैककोटीयोजनप्रमिता (१,४२,३०, २४९), मध्यभागे योजनाऽष्टकवाहल्या-ऽऽयामविष्कम्भाभ्यां चा-ऽष्टयोजनप्रमाणा, ततो मध्यभागात् परतः सर्वासु दिक्षु विदिक्षु च क्रमशः प्रतियोजनमगुलपृथक्त्वेन हीना हीनतरा प्रान्ते चा-ऽङ्गुलसंख्येयभागप्रमाणा सती मक्षिकापत्रादपि तनुतरा भवति,
औपपातिकसूत्रे तु "अंगुलस्स असंखेज्जभागं बाहल्लेणं पण्णत्ता" इत्युक्तम् , एवं प्रज्ञापनादिसूत्रेष्वपि । इयश्च पृथिवीकायिकैर्निर्वर्तिता मनोहरा सुरभिश्च । तथा चोक्तमावश्यकनियुक्ती
"ईसोपभाराए सीआए जोअणम्मि लोगंतो। बारसहिं जोयणेहि सिद्धी सव्वत्थसिद्धाओ ॥१॥ निम्मलदगरयवन्ना तुसारगोखोरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ अ भणिआ जिणवरेहिं ॥२॥ एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो चव सया अउणवन्ना ॥३॥ बहुमज्झदेसभाए अहव च जोयणाइ बाहल्लं। चरिमंतेसु अ तणुई अंगुलसंखिज्जई भागं ॥४॥ गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहुत्तं ।
तीसे वि अ पेरंते मच्छिअपत्ताउ तणुअयरा ॥५॥" इति । एवंभूताया ईरत्यागभारायाः पृथिव्या ऊर्ध्व सिद्धाः स्थिताः, इदं तु सामान्येन सिद्धानामवस्थानं भणितम् , विशेषतः पुनरेवंभूताया ईपत्मागभारायाः पृथिव्या उपरि यद्योजनम्, तस्य योजनस्य यः क्रोशः, तस्योपरितने षड्भागे स्वचरमभवसंस्थानस्य त्रिभागहीना-ऽवगाहनया सिद्धा अतिष्ठन्ते । यदुक्तमागमे
इंसीपभाराए उवरिंखलु जोअणस्स जो कोसो।
कोसस्स य छन्भाए सिडाणोगाहणा भणिआ।" इति । ननु प्रस्तुतगाथया कर्माष्टकप्रक्षयादनन्तज्ञानाद्यष्टगुणसंप्राप्तिलक्षणो मोक्षः प्रतिपाद्यते, स च विचार्यमाणो निरुक्तलक्षणो नोपपद्यते, किन्तु बुद्धयादिविशेषगुणोच्छेदरूप इत्याद्याहुर्नैयायिकादयः। तथाहि-तदत्यन्तविमोक्षोऽपवर्गः (गो० १-१-२२) इति गोतमसूत्रे तत्सर्वनाम्ना सर्वेषामात्मविशेषगुणानां बोधनाद् नवानामात्मविशेषगुणानां बुद्धयादीनामत्यन्तोच्छेदो मोक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org