________________
खवगसेढी
! गाथा-२६७
सिद्धस्स सुहो रासी सव्वापिंडितो जइ हवेज्जा । सोऽवग्भइतो सव्वागासे न माइज्जा ॥३॥ जह नाम कोई मिच्छो नगरगुणे बहुविहे वियाणतो । न चएइ परिकहेउं उवमाइ तहिं असंतोए ||४|| जह सव्वकामगुणियं पुरिसो भोत्तूण भोअण कोइ । तन्हा हा विमुको अच्लिज्ज जहाअमिअतत्तो ||५|| इअ सव्वकालतित्ता अडलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुहो सुहं पत्ता || ६ ||" इति । (६) आयुःक्षयादक्षयस्थिति: (७) विघ्नक्षयादनन्तं वीर्यम् (८) नामगोत्र योश्च क्षयाद् अमूर्ता-ऽनन्ताऽवगाहना । यदुक्तं गुणस्थानकक्रमारोहे
“ xxxअनन्ते सुखवीर्ये च वेद्यविघ्नक्षयात् क्रमात् ॥ १ ॥ आयुषः क्षोणभावत्वात् सिद्धानामक्षया स्थितिः । नामगोत्रक्षया देवा-मूर्ताऽनन्ताऽवगाहना ||२||" इति । अन्यत्राऽप्युक्तम्" तस्स वरनाण - दंसणवर - सुह-सम्मत्त-चरण-निच्चठिई । अवगाहना अनंतामुत्ताणं खइयविरिअं च ॥ १ ॥ नाणावरणाई कम्माणं अट्ठ जे ठिआ दोसा ।
तेसु गएसु पणासं एए अट्ठ वि गुणा जाया ॥२॥” इति । मोहनीयकर्मक्षयजन्यं गुणद्वयं क्षायिकसम्यक्त्वचारित्राख्यम्, नाम - गोत्रक्षयजन्यस्त्वेक एवाऽमूर्ताऽनन्ता ऽवगाहनाख्य इत्यत्र परिभाषैव शरणम् । नन्ववगाहना कथमात्मनो गुणः ? तस्य व्योमगुणत्वेन व्यवस्थितत्वात् । यदवादि वाचकमुख्यैः श्रीतस्वार्थ सूत्रे' आकाशस्याऽवगाहः ।” इति । न च व्योम्नः सामान्यतो ऽवगाहनागुणवत्त्वेऽप्यनन्तानामेकत्रा- ऽवगाहनाऽऽत्मनोऽसाविति वाच्यम् अनन्तानामप्यमूर्तत्वेन प्रतिघाताऽभावेन व्योम्नैवैकत्राऽवगाहनादानादिति चेत्,
५०६ ]
प्रतिघातस्य नामकपनीतशरीरजनितत्वेन शरीराऽभावप्रयुक्तप्रतिघाता ऽभावेन निरुका वगाहनायाः सम्भवात्, तस्याश्चाऽऽत्मगुणत्वात् । न च तथापि तदवगाहनाया नामकर्मक्षयजन्यत्वमस्तु,
न गोत्रक्षयजन्यत्वमिति वाच्यम्, नामगोत्रयोर्मिलितयोरेव तत्र तत्रोपन्यासवलेनैकस्मिन् गुणे नाम- गोत्ररूपकर्न प्रयक्ष यजन्यत्वयोजनात्, गोत्रकर्मक्षयजन्यस्य विशेषव्यवहाराऽभावभाजी गुणस्य सवे-पि प्राधान्येन नामकर्मक्षयजन्यस्या - ऽवगाहनागुणस्यैव वा गोत्रजन्यत्वस्वी कारात् । अष्टविधकर्मक्षयाद्यैः सिद्धैरेते केवलज्ञानादयोऽष्टौ गुणाः प्राप्ताः, ते ईपत्प्राग्भाराया ऊर्ध्वं स्थिताः सन्ति, न पुनरिह संसारे समागच्छन्ति, कर्मत्रीजस्या- ऽत्यन्तं दग्धत्वात् यदवादि तत्त्वार्थ भाष्यकारैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org