________________
सिद्धानानौ गुणाः ]
उत्तर कर्मापेक्षया क्षपणोपसंहारः
[ ५०५
मोहनीय कर्मणः सप्त प्रकृतयो ऽविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता ऽप्रमत्त गुणस्थानकानामन्यतमे गुणस्थाने क्षपिताः । ततोऽनिवृत्तिबादरसम्परायगुणस्थानकस्य बहुषु संख्येयभागेषु गतेष्वप्रत्याख्यानावरणाः क्रोधादयश्चत्वारः प्रत्याख्यानावरणाश्च क्रोधादयश्चत्वारो नाशमापादिताः, ततो नरकगतिनरकानुपूर्वी तिर्यग्गति-तिर्यगानुपूर्व्यं एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियरूपा चतुर्जातय आतपमुद्योतं स्थावरं सूक्ष्मं साधारणं निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धयश्च विलयं प्रापिताः, ततो नपुंसक वेद उन्मूलितः, ततः क्रमेण स्त्रीवेदो हास्यषट्कं पुरुषवेद: संज्वलनः क्रोधो मानो माया चेति सर्वसंख्ययाऽनिवृत्तिवाद र सम्पराय गुणस्थानके षट्त्रिंशत्प्रकृतयो समूलकाषं कषिताः । ततः सूक्ष्मसम्परायगुणस्थानकचरमसमये संज्वलन लोभः परिक्षपितः । ततः क्षीणकषायगुणस्थानकस्य द्विचरमसमये निद्राप्रचलाख्यं निद्राद्विकं प्रलयं प्रापितम्, चरमसमये तु ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चकरूपाश्चतुर्दश प्रकृतयो समूलका कषिताः । अयोगिकेवलिनो द्विचरमसमये देवगतिरौदारिकादिशरीरपञ्चकमङ्गोपाङ्गत्रमोदारिकौदारिकादिबन्धनपञ्चदशकमौदारिकादि संघातपञ्चकं संहननषट्कं संस्थानषट्कं वर्णादिविंशतिकं देवानुपूर्वी प्रशस्तखगतिरप्रशस्तखगतिरगुरुलधूपघातं पराघातमुच्छ्वासं निर्माणं प्रत्येकं स्थिरं शुभं सुस्वरमपर्याप्तम स्थिरा ऽशुभ- दुर्भग- दुःस्वरा-ऽनादेयाऽयशः कीर्त्तिरूपं प्रकृतिपद्कमन्यतरं वेदनीयं नीचैर्गोत्रं चेति द्वयशीतिः प्रकृतय उन्मूलिताः, तीर्थकरा ऽयोगिकेवलिचरमसमये च नामकर्मणो मनुष्यगति-पञ्चेन्द्रियजाति- मनुष्यानुपूर्वी त्रस बादर-पर्याप्त सुभगा ऽऽदेय-यशः कीर्त्ति - तीर्थकर नामकर्माण्यन्यतरवेदनीयमुच्चैर्गोत्रं मनुष्यायुश्चेति सर्वसंख्यया त्रयोदशप्रकृतयो नाशमापादिताः, अतीर्थकरा-योगिकेवलिचरमसमये त्वेता एव द्वादश तीर्थकरनामकर्मवजः ।
एवमष्कर्मक्षयाद् अष्टौ गुणाः प्रादुर्भवन्ति ।
तत्र (१) ज्ञानावरणकर्मक्षयात् सिद्धानामनन्तं केवलज्ञानं भवति (२) दर्शनावरण कर्मक्षया सिद्धानामनन्तं केवलदर्शनं भवति । (३) दर्शन मोहनीवक्षयात् क्षार्थिकं सम्यक्त्वम् (४) चारित्रमोहनीयाच्च क्षायिकं चारित्रं जायते । यदवाचि गुणस्थानकक्रमारोहेअनन्तं केवलज्ञानं ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चैव दर्शनावरणक्षयात् ॥ १ ॥ गुड सम्यक्त्व चारित्रे क्षायिके मोहनिग्रहात् । xxxxxxxxx ||२||" इति । अत्र बहु वक्तव्यमस्ति तत्त्वध्यात्मतपरिक्षादिग्रन्थान्तरतो ऽवसेयम् ।
(५) वेदनीयक्षयादनन्तमनुपममन्यावाधं शाश्वतं च सिद्धानां सुखं भवति, तथा चोक्तमागमे
Jain Education International
" न वि अत्थि माणुसाणं तं सोक्खं न विय सत्र्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ १ ॥ सुरगणसुहं समत्तं सव्वडापिंडियं अनंतगुणं । न य पावइ मुत्तिसुहं णंताहि वि वग्गवग्गूहिं ||२||
For Private & Personal Use Only
www.jainelibrary.org