________________
५०४]
खवगसेढी
--- - - ... [ गाथा-२६७ "ततोऽप्यूर्ध्वगतिस्तेषां कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात् , स हि हेतुर्गः न परः ॥१॥” इति ॥२६५-२६६॥
अयोगिगुणस्थानके प्रतिपादितपदार्थानां यन्त्रकम् । (१) अयोगिगुणस्थानकप्रथमसमय एव व्यवच्छिन्नक्रिया-ऽनिवृत्तिशुक्लध्यानं प्रतिपद्यते । (२) अयोगिगुणस्थानकप्रथमसमय एव शैलेशीमुपगच्छति । (३) शैलेश्याः कालोऽन्तमुहूर्तमात्रः, स च अइउऋल इत्येतदक्षरपञ्चकोच्चारणकालप्रमितो ज्ञेयः । (४) प्रतिसमयमसंख्येयगुणक्रमेण दलिकं निर्जरयति । (५) द्विचरमसमये संस्थानषट्का-ऽस्थिरषट्क-संहननषट्का-गुरुलघुचनुष्क-पञ्चशरीर-पञ्चसंघातन-खगतिद्विक-देवद्विक-बणोदिविंशतिक-पञ्चदशबन्धन-निमोणाङ्गोपाङ्गत्रिक-प्रत्येक-स्थिर-सुस्वर-शुभा-ऽपर्याप्त नीचे
र्गोत्रा-ऽन्यतरवेदनीयरूपाणां द्वयशीतिप्रकृतीनां (८२) सत्ताव्यवच्छेदः । (६) चरमसमये मनुष्यत्रिक-त्रसत्रिक-पञ्चेन्द्रियजाति-सुभगा-ऽऽदेय-यशःकीर्ति-तीर्थङ्करनामोच्चैर्गोत्रा-ऽन्य___ तरवेदनीयाख्यानां त्रयोदशप्रकृतीनां (१३) सत्ताविच्छेदः । (७) अन्येषा मतेन द्विचरमसमये मनुष्यानुपूर्वी सत्त्वतो व्यवच्छिद्यते, उदयाभावात । (८) तदनन्तरं समय-प्रदेशान्तरमस्पृशन्नेक समयेन लोकान्तं गच्छति । (९) एकस्मिन्नेव समये देहवियोग-सिध्यमानगति-लोकान्तप्राप्तयः । निश्चयनयापेक्षया तु कर्मक्षय-देहवियो
गादि सर्व युगपद् भवति । १०) सिध्यमानस्य गतिः-पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिपरिणामाच्च।
अथ सिद्धानामवस्थितिं निरूपयतिकम्मट्ठगक्खयत्तो लद्धा जीवे हि जेहि अट्ठगुणा। ईसीपब्भाराए उड्ढं ते-ऽवट्ठिआ हुन्ति ॥२६७॥
कर्मा-ऽ-ष्टकक्षयाल्लब्धाः जीवै रष्टगुणाः।
ईषत्प्रारभाराया ऊर्च ते-ऽवस्थिता भवन्ति ॥२६७।। इति पदसंस्कारः । 'कम्मट्ट०'इत्यादि, 'कर्माष्टकक्षयाद्' ज्ञानावरण-दर्शनावरण-वेदनीया-ऽऽयुर्नाम-गोत्रा-ऽन्तरायकर्मनाशाद् यैर्जीवः 'लब्धाः' प्राप्ता 'अष्टगुणाः' अनन्तज्ञान-दर्शन-क्षायिकसम्यक्त्व-क्षायिकचारित्राव्याबाधसुखा-ऽक्षयस्थित्यमूर्तानन्तावगाहना-ऽनन्तवीर्याख्याः 'ते' लब्धाऽष्टगुणाः सिद्धा ईपत्प्राग्भाराया ऊर्ध्वमवस्थिताः सन्ति' वर्तन्ते, नेह संसारे प्रच्यवन्ते, कर्मवीजस्य दग्धत्वात् ।
अथ विस्तरेण व्याख्यायते-मूलकर्मा-ऽपेक्षया मोहनीयकर्म सूक्ष्मसम्परायगुणस्थानकचरमसमये निःशेषतो क्षयमुपगतम् । क्षीणकषायगुणस्थानकचरमसमये ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्माणि क्षीणानि, अयोगिचरमसमये च नामागोत्र-वेदनीयरूपाणि चत्वारि कर्माणि युगपद् विनष्टानि ।
उत्तरकर्माऽपेक्षया त्वनन्तानुबन्धिनश्चत्वारो मिथ्यात्व-मिश्र-सम्यक्त्वमोहनीयानि चेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.