________________
सिमानस्य गते रुपपत्तिः ]
अयोगिगुणस्थानाद्धाधिकारः
"एरण्डाइ फलं जह बन्धच्छेएरियं दुयं जाइ ।
तह कम्मबंधणच्छ्रेयणेरिओ जाइ सिद्धो वि ॥ १ ॥” इति ।
(४) अथ चतुर्थी युक्तिर्विविच्यते कर्मविमुक्तो जीवः सकृदूर्ध्वं गच्छति, तथास्वाभाविकपरिणामाद्, अग्निधूमवत् । अयमस्य भावार्थ:- यथा अग्निधूमव स्वभावत ऊर्ध्वं गच्छति, तथैव जीवो-पे स्वभावत ऊर्ध्वं गच्छति, ऊर्ध्वगौरव धर्मत्वात् । न च जीवानामूर्ध्वगौरवधर्मत्वे संसारिणामधस्तिर्यग् च गतिः कुतो जायते ? इति वाच्यम्, तस्याः कर्मोपाधिजन्यत्वात् । तद्यथा - कर्मरहितानां जीवानामूर्ध्वं गतिर्भवति । कर्मसङ्गात्तु तिर्यगूर्ध्वमधश्च गतिरनियमेन भवति । यदुक्तं तत्त्वार्थभाष्यकारैः
Jain Education International
[ ५०३
तदनन्तरमेवोर्ध्वमालोकान्तात् स गच्छति । पूर्वप्रयोगाऽसङ्गत्वबन्धच्छेदोर्ध्व गौरवैः : 11211 कुलालचक्र दोलाया-मिषौ वाऽपि यथेष्यते । पूर्वप्रयोगात् कर्मेह तथा सिद्धगतिः स्मृता ||२|| मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलावुनः । कर्मसङ्गविनिक्षात् तथा सिङगतिः स्मृता ॥३॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद् यथा गतिः । कर्मबन्धविच्छेदात् सिद्धस्यापि तथेष्यते ॥ ४ ॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अधोगौरवधर्माण: पुला इति चोदितम् ||५|| trisaस्तिर्यगूर्ध्व च लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥ ६ ॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मणः प्रतिघाताच्च प्रयोगाच्च तदिष्यते ॥७॥ अधस्तिर्यगथोर्ध्व च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ||८||" इति ।
ननु कर्मरहितानां जीवानां स्वभावत एव ऊर्ध्वं गतिर्भवति, तर्हि लोकान्तादूर्ध्वमलोके कुतो न गच्छन्ति कर्मविमुक्ता जीवाः ? इति चेत्, उच्यते - धर्मास्तिकायो हि गत्युपग्राहकः । लोकस्योर्ध्वं धर्मास्तिकाया-ऽभावेन गत्युपग्राहकाभावात् परतः सिध्यमानानां जीवानां गतिर्न भवति, अलाबुवत् । इदमुक्तं भवति यथाऽलावु मृत्तिकालेपाऽपगमादूर्ध्वं गच्छत् स्वयमेत्र जलमस्तकप्रविष्टं भवति, न परतो गच्छति, उपग्राहकजलद्रव्या- ऽभावात् । एवं सिध्यमानो जीवो - ऽपि लोकान्तादूर्ध्वं गत्युपग्राहकधर्मास्तिकायाऽभावाद् न याति यदुक्तं तत्त्वार्थ भाष्ये
For Private & Personal Use Only
www.jainelibrary.org