________________
५०२ ]
खवगसेढी
[ गाथा-२६५-२६६ नन्वकर्मकस्य महात्मनः सिद्धिगमने को हेतुः ? सकर्मकस्यैव संसारे गमनादिक्रियादर्शनादिति चेत्, उच्यते-पूर्वप्रयोगादसङ्गत्याद् बन्धच्छेदात् तथागतिपरिणामाच्च सिध्यतो महात्मनो गतिर्न विरुध्यते, यदुक्त वाचकमुख्यः-"तदनन्तरमूवं गच्छन्त्यालोकान्तात् । पूर्वप्रयोगाद् असङ्गत्वात् बन्धच्छेदात् तथागतिपरिणामाच्च ।” इति ।
तथाहि-(१) यथा कुलालचक्र चक्रभ्रमणहेतुकुलालदण्डादिव्यापारोपरमे-ऽपि पूर्वप्रयोगाद् भ्राम्यति, तथा योगनिरोधाऽभिमुखस्य क्रियया योगेन यः प्रयोगो जनितः, स क्षीणे-ऽपि योगे गतिहेतुर्भवति, तेन पूर्वप्रयोगेणा-ऽकर्मणोऽपि सिध्यमानस्य गतिर्भवति । यथा च धनुषा पुरुषप्रयत्नेन प्रेरितस्येषोर्गतिकारणविरमे-ऽपि पूर्वप्रयोगाद् गतिर्जायते, तथैव कर्मविमुक्तस्य सिध्यमानस्य जीवस्य गतिर्जायते । उक्त च श्रीमद्भाष्यकृद्भिः
"जह धगु पुरिसपयत्तेरिएसुणो भिण्णदेसगमणं तु । गइकारणविगमम्मि वि सिद्धं पुव्वप्पओगाओ॥१॥ जहवा कुलालचक्कं किरियाहेउविरमे वि सकिरियं ।
पुव्वप्पओगओ च्चिय तह किरिया मुच्चमाणस्स ॥२॥” इति । . (२) अथ युक्त्यन्तरमुपवर्ण्यते-असङ्गत्वाद् गुरुमृतिकालेपलिप्ता-ऽ-धोनिमग्नक्रमाऽपनीतमृत्तिकालेपजलमर्यादोर्ध्वगामितथाविधा-ऽलाबुवत् सिध्यमानस्य गतिर्भवति । इदमुक्त भवति-यथा गुरुमृतिकालेपैरालिप्तमलावु घनमृतिकालेपवेष्टनोत्पादितगौरवेन जले निमज्जति, तरया-ऽद्भिर्लेपा-ऽपगमे च लेपसङ्गविनिमुक्त जलस्योर्ध्वतलं यावत् स्वभावतो गच्छति । एवं जीवो-ऽप्यष्टविधकर्ममृतिकावेष्टितः, तत्सङ्गाच्च संसारसागरस्य भवजले निमज्जति, कर्मसङ्गाचा-ऽधरितर्यगूधं च गच्छति, अष्टविधकर्ममतिकालेपविगमे च सिध्यमानो महात्मा स्वभावत ऊर्च गछति, ऊर्चगौरवधर्मत्यात् जीवानाम् । उक्तच आवश्यकनियुक्तिकारैः
“जह ते सलाभकाले चेव तहा गइसभावयामिति ।
परिणमइ तग्गइं वा लेवा-ऽवगमे जहाला ॥१॥” इति । * (३) अथ तृतीया युक्तिः प्रदश्यते-छिन्नबन्धनत्वात् सिध्यमानस्य जीवस्य गतिर्जायते, एरण्डफलबत् । इयमत्र भावना-बध्यतेऽनेनेति बन्धनम्-यथैरण्डफलस्या-ऽऽतपशष्ककोशरूपबन्धनापगमे गतिर्भवति, तथैव सिध्यतो जीवस्य कर्मवन्धनोच्छेदे गतिः संजायते । उक्त चावश्यकनियुक्तीकारैः
* एवं मूलराधनाकारैरप्युक्त म्
संगजहरणेण वलहदयाए उड्ढं पयादि सो जीवो। जध लाउगो अलेग्रो उप्पददि जले निबुड्डो वि ॥१॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org