________________
अस्पृशद्गत्यादिकम् ]
अयोगिगुणस्थानाद्धाधिकारः
[ ५०१
चरमसमये दलिकं दृश्यते एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः । आनुपूर्वी नाम्नां तु चतुर्णामपि क्षेत्रविपाकितया भवापान्तरालगतावेवोदय:, तेन न भवस्थस्य तदुदयसम्भवः, तदसम्भवाच्चाऽयोग्यवस्थाद्विचरमसमये एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः इति तन्मतेन द्विचरमसमये त्रिसप्ततिप्रकृतीनां सत्ताव्यवच्छेदः, चरमसमये द्वादशानामिति ।" इदन्त्ववयम् - सामान्यकेवलिनोऽधिकृत्य चरमसमय एकादशप्रकृतीनां सत्ताविच्छेदस्तेषां मतेन भवति । तत्त्वं त्वत्र केवलिनो बहुश्रुता वा विदन्ति ।
अथ क्षीणेवातिकर्म यद्भवति तद्वक्कुकाम आह- 'सिज्झइ' इत्यादि, तत्र 'क्षणेन' एकवचननिर्देशाद् एकसमयेन समय प्रदेशान्तरमस्पृशन् 'सिध्यति ' केवलज्ञानोपयागेनोपयुक्त ऋजुश्रेण्या सिद्धिं गच्छति । उक्तं च कषायप्राभृतचूर्णिकारै:- "सेलेसि अडाए झोणाए सव्वकम्मविप्मुको एसमएण सिद्धिं गच्छइ ।" इति । तथैवाऽऽह भगवान् भाष्यकार:“रिउसेढोपडिवन्नो समयपएसंतरं अफुसमाणो ।
एगसमएण सिज्झइ अह सागारोवउत्तो सो || १ ||" इति ।
ऋजुश्रेण्या समयान्तरं स्वा ऽवगाढप्रदेशान्तरञ्चा-ऽस्पृशन्नेव यावत्स्वाकाशप्रदेशेष्ववगाढः, तावतः प्रदेशानवगाहमानः केवलज्ञानोपयुक्तो लोकान्तं गच्छतीत्यर्थः । यदुक्तमावश्यकचूर्णो- “जथा उज्जुसेढिपत्तो जत्तिए जोवो अवगाहे, तावतियाए अवगाहणाए उड्ढं उज्जुगं गच्छति, ण वंकं, अफुसमाणगतो, बितियं समयं ण फुसति, अहवा जेसु अवगाढो जे य फुसति, उड्ढमपि गच्छ्रमाणो ततिए चेव आगासपदेसे फुसे माणो गच्छति, सरोऽपि ततोऽधिके परिपेरंतेण बहिं, एगसमपणं असरीरेणं अकुडिलेण वा उड्ढ गंता, न तिर्यग अधो वा भ्रमति वा, सागारोवउत्ते सिज्झति ।" इति ।
क्षीणेष्वघातिकर्मसु जीव-चरमभवशरीरयोविंयोगः सिध्यमानस्य गतिलोंकान्तप्राप्तिश्चेत्येतत्त्रयमेकसमयेनाऽचिन्त्यसामर्थ्याद् युगपद् भवति । यदुक्तं श्रीतत्त्वार्थभाष्ये- "कर्मक्षये देहवियोग- सिध्यमानगति-लोकान्तप्राप्तयो ह्यस्य युगपदेकसमयेन भवन्ति ।" इति केचिदाहुः - कर्मक्षयकालो देहवियोगादिसमकाल एव भवतीति । उक्तञ्च सप्ततिकाचूर्णौ"ततो कम्मविमोक्खसमए चेव उड्ढं गच्छति लोकान्तम् ।" इति । मतद्वयमपि तत्त्वावृत्तौ सङ्गृहीतम् । अक्षराणि त्वेवम् - तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छतिXXXXतस्य अचिन्त्यसामर्थ्याच्चैतत् सर्व युगपद् भवति देहवियोगादि । केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति ।" इति । अयमत्र विवेक:-व्यवहारनयेन क्रियाकाल-निष्ठाकालयोर्भेदः, reader भेदः । तेन प्रथममतेन कर्मक्षयानन्तरं देहवियोगादि भवति, द्वितीयमतेन तु सर्व युगपद् भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org