________________
५०० ]
खबगसेढी
[ गाथा २६५-२६६ __ नन्वौदारिकशरीरादिवद् मनुष्यानुपूर्वीनामकर्मा-ऽयोगिकेवलिद्विचरमसमय एव सर्वथा परिक्षपणीयम्,उदयाभावात्,चरमसमये तत्सत्ताविच्छेदः कथं घटां प्राश्चति ? इति चेत्,उच्यते-आनुपूर्वी. नामानि सर्वत्र स्वस्वगतिसहगतान्येव परिक्षीयन्ते, यथाऽनिवृत्तिबादरसम्पराये नरकानुपूर्वी-तिर्यगानुपूयौँ स्वस्वगतिसहचरिते क्षीणे, तथैवेहाऽपि मनुष्यानुपूर्वी मनुष्पगत्या सह क्षयं गच्छति । मनुष्यगतिश्च चरमसमये क्षीयते, उदयवत्वात् तस्याः, तेन मनुष्यानुपूर्व्यपि चरमसमये क्षीयते, यदुक्तं सप्ततिकाभाष्यवृत्तौ श्रीमेरुतुङ्गसूरिपादैः-'अन्ये त्वाचक्षते-आनुपूयॊ हि सर्वत्र स्वस्वगतिसहर रिता एव । अतो यथा नरकगति-तिर्यग्गती स्वस्वानुपूर्वीभ्यां सहा-ऽनिवृत्तिबादरसम्पराये क्षीयेते, अतोऽत्र त्रयोदशप्रकृतिक्षयो, द्विचरमसमये तु विसप्ततिक्षयः।” इति ।
___ अथ चरमसमय उदयविच्छेदं भणति-'एगूणा' इत्यादि, 'एकोनाः' अनुपदं या मनुष्यगत्यादय उक्ताः, ता एकया मनुष्यानुपूर्वी रक्षगया प्रकृत्या ऊना:-हीना उदयतो व्यवच्छिद्यन्ते, द्वादशप्रकृतय उदयतो-उपगच्छन्तीत्यर्थः, आनुपूर्वीनाम्नः क्षेत्रविपाकित्वेन भवा-ऽऽयान्तरालगतावेव तदुदयो भवति,तेन भवस्थस्या-ऽयोगिकेवलिनो मनुष्यानुपूर्व्या उदयो न संभवतीति द्वादश प्रकृनयो मनुष्यगति-मनुष्यायुः-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त सुभगा-ऽऽदेय-यशःकीयुच्चैगोत्रा-ऽन्यतरवेदनीयतीर्थकृत्कर्मरूपा अयोगिगुणस्थानकचरमसमय उदयतो व्यवच्छिद्यन्ते, एतावतीनां प्रकतीनामुदयविच्छेदो जायत इत्यर्थः । उक्तंच श्रीकर्मस्तवे
“अन्नयरवेयणीयं मणयाऊ मणुयगइ य बोहव्वा । पंचिंदियजाई वि य तस-सुभगा-5एज्ज-पज्जत्तं ॥१॥ बायर जसकित्तो वि य तित्थयरं उच्चगोययं चेव ।
एया बारस पयडी अजोगिचरिमंमि वोच्छिन्ना ॥२॥” इति । इदमत्रा-ऽवधेयम्-अतीर्थकृद्भिः सामान्यकेवलिभिस्तीर्थकृन्नामकर्मवर्जा अनन्तरोक्ता एकादश प्रकृतय उदयतो व्यवच्छिद्यन्ते ।
अथ सत्ताविच्छेदे मतान्तरं दर्शयति-'नरआणुः' इत्यादि, तत्र 'द्विचरमक्षणे' अयोगिकेवलिगुणस्थानकद्विचरमसमये 'मनुजानुपूर्वीसत्ताच्छेद' मनुष्पानुपूर्व्याः सत्ताविच्छेदम् 'इतरे' अन्ये आचार्या 'ब्रान्ति' वदन्ति, उदया-ऽभावात् । तेन तेषामाचार्याणां मतेना-ऽयोगिकेवलिगुणस्थानकविचरमसमये * त्रिसप्ततिप्रकृतीनां सताविच्छेदो जायते, चरमसमये तु द्वादशप्रकृतीनाम् । उक्तं च श्रीमलयगिरिपादैः पञ्चसंग्रहवृत्तौ-"अन्ये पुनराहुः-मनुष्यानुपूर्व्या विचरमसमये व्यवच्छेदः, उदयाभावात् । उदयवतीनां हि स्तिबुकसंक्रमाभावात् स्वस्वरूपेण
* नामकर्मणस्यधिकशतभेदाँस्त्वाश्रित्य त्र्यशीतिः प्रकृतयः सत्तातो व्यवच्छेदं यान्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org ..