________________
अयोगिकेवलिचरमसमयः ]
अयोगिगुणस्थानाद्धाधिकारः
स्थित्युदयो गुणिनकर्माशस्य च भगवतो मनुष्यायुर्वर्जशेषाणामेकादशानां प्रकृतीनामुत्कृष्टप्रदेशोदयो जायते ।। २६२-२६३-२६४॥
अथ चतुर्दशा ऽयोगिगुणस्थानकचरमसमय उदयसच्चविच्छेदमस्पृशद्गतिं च विभणिपुराहचरिमम्मि रतसतिगं पणिदियुच्चजससुभगआइज्जं । सायमसायं व जिणं वा गूणा य उदयत्तो ॥ २६५॥ अणुपुत्री सत्ताच्छेअं विंति इयरे दुरिमखणे । सिज्झइ खणेण समयप्प असअंतरमफुसमाणो ॥ २६६ ॥
चरमे नरत्रसत्रिकं पञ्चेन्द्रियोच्च यशः सुभगादेयम् |
सातमसातं वाजिनं वैको नाश्च यतः || २६५ ॥
नरानुपूर्वी सत्ताच्छेदं त्रुवन्तीतरे द्विचरमक्षणे ।
सिध्यति क्षणेन समय प्रदेशान्तरमस्पृशन् || २६६ ।। इति पदसंस्कारः ।
'चरिमम्मि' इत्यादि, 'डिज्जन्ति सन्तत्तो' इतिपदद्वयं पूर्वतो ऽनुवर्तते, 'चरमे' अयोगिकेवलिगुणस्थानकस्य चरमसमये 'नरत्रसत्रिक' त्रिकशब्दस्य प्रत्येकं योजनात् नरत्रिक= मनुष्यगति-मनुष्यानुपूर्वी - मनुष्याऽऽयुराख्यं त्रसत्रिकं त्रस बादर-पर्याप्तलक्षणं 'पञ्चेन्द्रियोव्चयशस्सुभगा-ऽऽदेवम्' पञ्चेन्द्रियादयः कृतसमाहारद्वन्द्वसमासाः प्रथमया निर्दिष्टाः, पञ्चेन्द्रियजातिरुञ्चैर्गोत्रं यशःकीर्त्तिन।मकर्म सुभगनामकर्मा - ऽऽदेव नामकर्म च 'सातमसातं वा' वाकरो विकल्पार्थकः, सातोदयेन शैलेश प्रतिपन्नस्य सातन्, असातोदयेनाऽधिगतस्य त्वसातम्, एकतरस्य द्विचरमसमये व्यवच्छेदात् 'जिणं वा' त्ति अत्रापि वाकारो विकल्पार्थकः, 'जिनं' जिननामकर्म तीर्थकृत आश्रित्य, सामान्यकेवलिनस्तु प्रतीत्य तन्न ति सर्वसङ्ख्यया तीर्थकृत आश्रित्यैतास्त्रयोदश प्रकृतयः सामान्यकेवलिनश्च प्रतीत्य द्वादश प्रकृतयः सत्तातः छियन्ते अपुनर्भावेन क्षीयन्ते । उक्तं च विशेषावश्यक भाष्यकृद्भि::–
I
“मणुयगइजाइत सबायरं च पज्जत्तसुभयमाएजं । अन्नयरवेयणिज्जं नराउमुचं जसो नाम ॥ १ ॥
Jain Education International
संभवओ जिणनाम नराणुपुत्र्वी य चरिमसमयम्मि | सेसा जिणसंताओ दुचरिमसमयम्मि निहं ति || २ ||" इति ।
[ ४९९
तथैव श्रीमन्मलयगिरिपादैरपि - " चरमसमये च सातासाता ऽन्यतरवेदनीयमनुष्यगति-मनुष्यानुपूर्वी - मनुष्यायुः पञ्चेन्द्रियजाति-त्रस-सुभगा-देय-यशः कीर्त्ति पर्याप्त बादर - तीर्थकरोच्चैर्गौत्र रूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः । " इति ।
For Private & Personal Use Only
www.jainelibrary.org