________________
'४९८ ]
खबगसेढी
[ गाथा-२६२२६४ वैक्रिया-ऽऽहारक-तैजस-कार्मण-शरीररूपाः, पञ्चसंघातानि औदारिक क्रिया-ऽऽहारक तैजस-कार्मणसंघातलक्षणानि 'खगतिसुरद्विकं च' किशब्दस्य प्रत्येक सम्बन्धात् खगतितिक-प्रशस्तविहायोगत्यप्रशस्तविहायोगतिरूपं सुरद्विकं देवगति-देवानुपूर्वीलक्षणम् , चकारः समुच्चयार्थः, 'वीसा वण्णाई' ति 'विंशतिर्वर्णादयः' कृष्ण-नील-लोहित-हारिद्र-शुक्लवर्ण-सुरभि-दुरभिगन्धतिक्त-कटु-कवायाऽऽम्ल-मधुररस-गुरु-लघु-मृदु-खर-शीतोष्यस्निग्धरूक्षस्पर्शाख्याः प्रकृतयः 'तथा' तथाशब्दः समुच्चये 'बन्धनपञ्चदशकं' बन्धनानां पञ्चदशकमिति अन्धनपञ्चदशकम्, पञ्चदशानां बन्धनामौदारिकौदारिकौदारिकतैजसौदारिककार्मणौदारिकतैजसकार्मण-वैक्रियवैक्रिय-क्रियतैजस क्रियकार्मण-वैक्रियतैजसकार्मणा-ऽऽहारकाहारका - ऽऽहारकतैजसा-ऽऽ-हारककार्मणा-ऽऽहारकतैजसकार्मणतैजसतैजस-तैजसकार्मण-कार्मणकार्मणाख्यानां समुदाय इति यावत् , 'निर्माणं' निर्माणनामकर्म 'अंगोवंगतिगं' ति 'अङ्गोपाङ्गत्रिकम्' औदारिक-वैक्रिया-ऽऽहारका-ऽङ्गोपाङ्गरूपं पत्तेयतिगं' ति 'प्रत्येकत्रिक' प्रत्येकोपलक्षितत्रिकं अत्येकनामकर्म स्थिरनामकर्म शुभनामकर्म चेत्यर्थः, 'सुस्वरं' सुस्वरनामकर्म 'अपर्याप्तम्' अपर्याप्तनामकर्म च 'सायं' इत्यादि, 'सातं वा' सातवेदनीयं वा 'असातं वा' असातवेदनीयं वा, सातवेदनीयोदयेन शैलेशी प्रतिपन्नस्या-ऽसातवेदनीयमसातवेदनीयोदयेन पुनः शैलेशीमधिगतस्य सातवेदनीयमित्यर्थः, 'नीचं नीचेगोत्रं चेत्येताः सर्वसंख्यया द्वयशीतिप्रकृतयः 'सन्तत्तो' त्ति सत्तातः 'छिद्यन्ते' स्वरूप सत्तामधिकृत्य क्षप्यमाणाः क्षपिता इत्यर्थः, चरमसमये स्तिवुकसंक्रमेणोदयवतीयु मूलप्रकृत्यभिन्नासु परप्रकृतिषु तासां संक्रमणात् । प्रत्यपादि च कमस्तवे
"देवदुगपणसरीरं पंचसरीरस्स बंधणं चेव । पंचेव संघाया संठाणा तह य छकं च ॥१॥ तिनि य अंगोवंगा संघयणं तह य होइ छक्कं च पंचेव य वण्णरसा दो गंधा अट्ठ फासा य ।।२।। अगुरुलहुयचउकं विहायगइदुगथिराथिरं चेव ।
सुहसुस्सरजुयला वि य पत्तेयं दूभगं अजसं ॥३॥" इति । श्रीकर्मस्तवकृद्भिरष्टचत्वारिंशदधिकशतप्रकृतीराश्रित्य सत्ताविच्छेदोऽभिहित इति तैर्वन्धनपश्चकस्यैव सत्ताविच्छे दो दर्शितः, अस्माभिस्त्वष्टापञ्चाशदुत्तरशतप्रकृतीरवलम्ब्य सत्ताविच्छेदः प्रतिपादित इति बन्धनपञ्चदशकस्य सत्ताविच्छेदः प्ररूपितः । इदमत्राऽवधेयम्-प्रागनुपार्जिता-ऽऽहारकसप्तकस्य जीवस्या-ऽऽहारकसप्तकस्य सत्ताविच्छेदो न द्रष्टव्यः, तस्य तत्सत्कर्माऽभावात् ।
तदनन्तरमयोगिगुणस्थानकचरमसमये त्रस-बादर-पर्याप्त-सुभगा-ऽऽदेय-यशःकीर्ति-मनुष्यगीमनुष्यायुः-पञ्चेन्द्रियजाति-जिननामकर्मोच्चैर्गोत्रा-ऽन्यतरवेदनीयरूपाणां द्वादशप्रकृतीनां जघन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org