________________
द्विचरमसमये व्यवच्छिद्यमानाः प्रकृतयः ] अयोगिगुणस्थानकाद्धाधिकारः
[४९७ ____ अङ्गोपाङ्गत्रिकं तथा प्रत्येकत्रिकं सुस्वरमपर्याप्तम् ।
- सातं वा-सातं वा नीचं व्यवच्छिद्यन्ते सत्तातः ।।२६४।। इति पदसंस्कारः। 'पुव्वरइय०' इत्यादि, 'पूर्वरचितकर्म' पूर्वम्-आयोजिकाकरणादिकाले गुणश्रेणिं कुर्वता यदसंख्ये गुणक्रमेण रचितमायुर्वजवेदनीयादीनां कर्मदलम् , आयुषस्तु गुणश्रेण्यभावेनाऽसंख्येयगुणक्रमेण दलिकरचनाऽभावात् , तत् पूर्वरचितकर्म, यदुक्तं प्रज्ञापनावृत्तौ श्रीमद्हरिभद्रसूरिपादैः-"पुव्वरइयं च णं कम्म' आउज्जी [जीवा न भेदोपचारे ] काले चेव गुणसेही करेति, गुणप्पहाणा सेढोर, आउकम्मसमयमित्तकालं गुणसेटिं रएति, पढमस. मए वेदणीयादिकम्मपदेसे थोवे रएति, बितियादिसु असंखिजगुणे२ रएति ।” इति । 'गतलेश्यः' गता अपगता लेश्या यस्य, स गतलेश्यः, अलेश्यो-ऽयोगिकेवली भगवानित्यर्थः, असङ्खयगुणक्रमेण क्षपति, अयोगिप्रथमसमये स्थितिक्षयेणोदयवतीनां विपाकतो-ऽनुदयवतीनां च स्तिबुकसंक्रमेण संक्रम्य प्रदेशतो वेदनीयादिप्रकतीनां पूर्वरचितकर्मदलं स्तोकं विनाशयति, ततो द्वितीयसमये-ऽसंख्येयगुणं क्षपयति, ततोऽपि तृतीयसमये-ऽसंख्येषगुणम् । एवमुत्तरोत्तरसमयेऽसंख्येयगुणक्रमेण दलं क्षपयतीत्यर्थः। यदवादिषुस्तत्रभवन्त आय-श्यामाः प्रज्ञापनायाम्-"xxx अजोगयं पाउणित्ता ईसिं हस्सपंचक्रवरुचारणडाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजह, पुव्वरइयगुणसेढोयं च णं कम्म, तोसे सेलेसिमडाए असंखेजाहिं गुणसेढीहिं (असंखेजे) कम्मखंधे खवयति ।" इति । तथैव श्रीमन्तो भाष्यकृतो-ऽपि
“तदसंखेजगुणाए गुणसेढोए रइयं पुरा कम्म ।
समए समए खवियं कमसो सेलेसिकालेणं ।।१।।" इति । एवं स्थितिघातादिरहितोऽयोगिकेवली भगवान् स्थितिक्षयेणोदयवतीनां प्रदेशाग्र विपाकतोऽनुदयवतीनां पुनः प्रकृतीनां वेद्यमानप्रकृतिषु स्तिबुकसंक्रमण संक्रम्य प्रतिसमयमसंख्येयगुणक्रमेण क्षपयनयोगिगुणस्थानकस्य द्विचरमसमयमुपगच्छति, तदानीं तस्य महात्मनः कतीनां प्रकृतीनां सत्ताविच्छेदो जायते ? इत्यत आह-'दुचरिम०' इत्यादि, 'द्विचरमसमये' द्वितीयश्चरमो यस्मात्-यत आरभ्या-ऽन्तिमसमयो द्वितीयो भवति, स द्विचरमसमयः, तस्मिन् , अयोगिगुणस्थानकस्य चरमसमयात् प्राक्तनसमय इत्यर्थः 'संस्थाना-ऽस्थिर-संहननषटकं तु षटकशब्दस्य प्रत्येकं सम्बन्धात् संस्थानषटकं-समचतुर-न्यग्रोधपरिमण्डल-सादि-वामन-कुब्ज-हुण्डसंस्थानाख्यम् ,अस्थिरषटकम् अस्थिरोपलक्षितं षटकम् अस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिरूपम्,संहननषटकंबज्रर्षभनाराच-ऋषभनाराच-नाराचा-ऽर्धनाराच-कीलिका-सेवार्तसंहननरूपम्,तुर्वाक्यभेदे, 'अगुरुलघुचतुष्कम्' अगुरुलघूपधातपराघातोच्छ्वासाख्यं 'पणतणुसंघाया' ति प्राकृतत्वात् पुंस्त्वनिर्देशः, 'पञ्चतनुसंघातानि पञ्चशब्दस्य प्रत्येकमभियोजनात् पञ्चतनवः औदारिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org