SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ४९६ ] खवगसेढी [ गाथा-२६२-२६४ इत्थं शैलेशी प्राप्तः चतुर्थ व्यवच्छिन्नक्रिया-ऽप्रतिपातिशुक्लध्यानं ध्यायति ।उक्तं च तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स। वोछिन्नकिरियमप्पडिवाइज्झाणं परमसुकं ॥१॥” इति । ननु का नाम शैलेशी ? उच्यते-शिलाभिनिवृत्ताः शैलाः पर्वताः,शैलानामिशःशैलेशः मेरुपर्वतः, तस्येयं शैलेशी, मेरुवद् निष्कम्पत्वात् स्थिरतेत्यर्थः । अथवा 'शील समाधौ' इति धात्वर्थदर्शनात् शीलं समाधानम्, तच्च निश्चयतः सर्वसंवरः, तस्य ईशः स्वामी शीलेशः, सयोगिकेवलिनो योगनिमित्तककर्मादानोपलम्भात् निश्शेषतः संवरो नासीत्,अयोगिना भगवता तु योगस्या-पि निरुद्धत्वाद् भवति सकलसंवरस्तस्य महात्मनः । शैलेशस्येयमवस्था शैलेशी । उक्तं च श्रीमभाष्यकृद्भिः सेलेसो किल मेरू सेलेसी होइ जा तदचलया। होउं व असेलेसो सेलेसीहोइ थिरयाए ॥१॥ सोलं व समाहाणं निच्छयओ सव्वसंवरो सो य । तस्सेसो सोलेसो सोलेसी होइ तयवत्था ॥२॥” इति अथ शैलेश्याः कालो भण्यते-ना-ऽतिशीटुर्ना-ऽतिस्थिरैः, किन्तु मध्यमरीत्या यावता कालेन 'अ इ उ ऋ लू' इत्येतानि पञ्च ह्रस्वा-ऽक्षराण्युद्गीयन्ते, तावान् शैलेश्याः कालो बोद्धव्यः । उक्तं च विशेषावश्यकभाष्ये-- ___ "हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अत्थइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥१॥” इति ॥२६॥ ननु शैलेशीप्राप्तो-ऽयोगिकेवली भगवान् किं करोति ? इत्यत आह पुवरइयकम्मं खवइ असंखगुणक्कमेण गयलेसो । दुचरिमसमये संठाण-अथिर-संघयणछक्कं तु ॥२६२॥ अगुरुलहुचउक्कं पणतणुसंघाया खगइ-सुरदुगं च । वीसा वण्णाई तह बंधणपन्नरसगं निमिणं ॥२६३॥ अंगोवंगतिगं तह पत्तेयतिगसुसरमपजत्त । सायं व असायं वा नीअं छिज्जन्ति सन्तत्तो॥२६४॥ पूर्वरचितकर्म क्षपयत्यसंख्यगुणक्रमेण गतलेश्यः । द्विचरमसमये संस्थाना-ऽस्थिर-संहननषटकं तु ॥२६२॥ . अगुरुलघुचतुष्कं पञ्चतनुसंघातानि खगति-सुरद्विकं च । विंशतिर्वर्णादयस्तथा बन्धनपञ्चदशकं निर्माणम् ।।२६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org ..
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy