________________
व्यवच्छिन्नक्रिया-प्रतिपातिध्यानम् ] अयोगिगुणस्थानाद्धाधिकारः
[ ४९५
द्यते, यथा पुत्रकार्यादपुत्रोऽपि पुत्रो भण्यत इति । किञ्च (४) ध्यैधातोरनेकार्थत्वेन 'ध्यै अयोगित्वे' इत्यभ्युपगमाद् (५) जिनागमवचनप्रामाण्याच्चाऽयोगिनो ध्यानं सिध्यति । उक्तं च विशेषावश्यकभाष्ये
" yaaruओगओ वि य कम्मविणिज्जरणहेउतो वा वि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य ॥ १ ॥ चित्ताभावे विसया सुहुमोवरय किरियाइ भण्णंति । जोवोवओगसम्भावओ भवत्थस्स झाणाई ||२||" इति ।
अत्र पूर्वप्रयोगादिति हेतु: कारणोपपत्तये, पूर्वसंस्काररूपहेत्वनपायात् । जीवोपयोगरूपभावमनः सद्भावादिति द्वितीयो हेतुर्लक्षणोपपत्तये, भावमनः स्थैर्यरूपलक्षणोपपत्तेः । ध्यानकार्य-कर्मनिरणे हेतुत्वादिति हेतुर्व्यवहारोपपत्तये । अनेकार्थत्वादिति शब्दाऽर्थोपपत्तये, जिनागमवचनप्रामाण्यादिति च प्रमाणोपपत्तय इति द्वातव्यम् ।
अत्र सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणार व्युपरत क्रियाऽप्रतिपातिनो ग्रहणम् ।
परतक्रियाऽनिवर्तिष्याने वर्तमानस्य महात्मनो बन्ध-लेश्या - योगादयो न भवन्ति, सयोगिकेवलिचरमसमये व्यवच्छिन्नत्वात् उक्तं च शतकचूर्णी
"जोगाभावाओ पुण दुसमयंठितो ण कम्मबन्धोति । झाणपसंहारा तिभागसंकुचियनियदेहो ॥ १ ॥ लेसाकरणणिरोहो जोगणिरोहो य तणुणिरोहेण । अह भणिओ विन्नेओ बन्धणिरोहो वि य तहेव ॥ २ ॥ एसो अजोगिभावो जोगणिरोहेण पत्तगुणणामो । अप्पडिवायज्झाणी सच्चण्णू सव्वदंसी य || ३ ||" इति ।
ननु यदि चित्ताभावेऽप्ययोगिनो ध्यानमिष्यते, तर्हि सिद्धस्य कथं नेष्यते ? इति चेत्, उच्यते--सिद्धानां प्रयत्नविशेषाभावात् कर्मनिर्जरादिप्रयोजनाभावाच्च न सिद्धानां ध्यानं भवितुमर्हति उक्त च विशेषावश्यकभाष्ये
"जइ अमणस्स वि झाणं केवलिणो तं न सिद्धस्स ? 1 भण्णइ जं न पयत्तो तस्स जओ न य निरुर्व्वं ॥ १ ॥ "
तथा चात्र तट्टीका - " यद्यमनस्कस्याऽपि केवलिनो ध्यानमिष्यते, तर्हि fest किमिति नाभ्युपगम्यते ! भण्यते ऽत्रोत्तरम्, यद्यस्मात् तस्य सिद्धस्य कारणा-भावेन प्रयत्नो नास्ति, न च योगलक्षणं निरोडव्यमस्ति, अतः प्रयत्नाभावात् प्रयोजनाभावाच्च न सिद्धस्य ध्यानमिति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org