Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 669
________________ ५१२ ] खवगसेढी [ नाथ ६७ भावत्वेऽपि नित्यत्वेन कार्यत्वाभावानाऽनित्यत्वम् । न च तथापि बुद्धयादिविनाशे तद्वत आत्मनोऽपि नाशः स्यादेवेति वाच्यम् , गुणगुणिनोस्तादात्म्याऽभावात् । अत्र प्रतिविधीयते-'यत्तावदुक्तम् 'नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वादित्यत्रा-ऽऽत्मनः किं सर्वथा भिन्नानां बुद्धयादिविशेषगुणानां सन्तानस्योच्छेदः साध्यते, उता-ऽभिन्नानाम् , आहोस्वित् कश्चिद् भिन्नानाम् ? तत्र प्रथमपक्षे तावदाश्रयाऽसिद्धो हेतुः, आत्मतोऽत्यन्तभिन्नानां बुद्धयादिविशेषगुणानामसत्कल्पत्वात् सन्तानस्य धर्मिणोऽसिद्धः । तथा तेषां भवन्मते स्वसंवेदितत्वाऽनभ्युपगमात् ज्ञानान्तरग्राह्यात्वे चा-ऽनवस्थादिदोषप्रसङ्गात् , अज्ञातानाञ्च सचासिद्धः पुनरप्याश्रयासिद्धः 'सन्तानत्वाद् ' इति हेतुः। ___ ना-ऽपि द्वैतीयिकः पक्षः कक्षीकरणाहः, आत्मनः सर्वथा- भिन्नानां बुयादिविशेषगुणानामुच्छेदसाधने तद्वत आत्मनोऽप्युच्छेदः स्यात् । ततश्च कस्याऽसो मोक्षः ? नाऽपि तार्तीयिकः पक्षः, कथञ्चिद्भदस्य तु नैयायिक-वैशेषिकादिभिरनभ्युपगमात् , तदभ्युपगमेऽपि सर्वथा तदु छेदाऽसिद्धिः, कथञ्चिदनुच्छेदस्याऽप्येवं प्रसिद्धः । तथा-ऽभ्युपगमे चा-ऽस्मन्मतमेवा-ऽङ्गीकृतं प्रेक्षावता । अभ्युपगम्यत एव हि स्याद्वादवादिभिगुणगुणिनोः कथिश्चद्भेदः, तेन "नहम्मि य छ उमथिए नाणे” इत्यागमात् क्षायोपशमिकमन्यादिज्ञानानां विनाशेऽपि मोक्षावस्थायां क्षायिककेवलज्ञानस्या-ऽनुच्छेदः ।। किञ्च सन्तानत्वं हेतुत्वेनोपादीयमानं किं सामान्यरूपमभिप्रेतम् , उन विशेषरूपम् ? तत्र प्रथमपक्षे स्वरूपासिद्धो हेतुः, बुद्धयादिविशेषगुणेषु तेजोद्रव्यविशेषे च सत्तासामान्य व्यतिरेकेणाऽपरसामान्यस्याऽसम्भवात् । न च सन्तानत्वस्य सत्तारूपपरसामान्यरूपत्वे न तस्य स्वरूपासिद्धत्वमिति वाच्यम् , यतः सत्तासामान्यरूपत्वे सन्तानत्वस्य 'सत् सत्' इति प्रत्ययहेतुत्वमेव स्यात्, न पुनः 'सन्तानः सन्तानः' इति प्रत्ययहेतुत्वम् , अन्यथा द्रव्यगुणकर्मस्वरूपादेव 'सत् सत्' इति प्रत्ययोपपत्तेः सत्ताकल्पनाया वैयर्थ्यम् । किश्च सत्तासामान्यरूपत्वे गगनादिना व्यभिचारः, अत्यन्नोच्छेदा-ऽभावेऽपि गगनादौ सत्तासामान्यरूपस्य सन्तानत्वस्य हेतोः सद्भावात् ।। अपि च सन्तानत्वसामान्यस्य बुद्धयादिषु वृत्तिमत्ता समवायेन भवतेष्यते, समवायस्य च सम्मतितर्कादिवृत्तिग्रन्थेषु न्यक्षेण निषिद्धत्वात् पुनरपि सन्तानत्वहेतोः स्वरूपासिद्धता । नाऽप्यपरसामान्यरूपं सन्तानत्वं सम्भवति, यतो विशेषगुणाश्रिता जातिः खलु सन्तानत्वं न साधर्म्यदृष्टान्ते तेजोद्रव्ये प्रदीपादावस्ति, गुणवृत्तित्वात् , तेन साधनविकलो दृष्टान्तः । (१) पृ० ५०८ पं० २५। (२) साध्याभावे-ऽपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786