Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 689
________________ ५३२] खवगसेढी [गाथा-२६७ तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तः पूरण रेव खन्यते ॥१॥ इति किश्चा-ऽभिलाषनिवृत्तिरन्यथाऽपि-विषयेषु दोषदर्शनादितोऽपि सम्भवति । विषयेषु दोषाश्चेत्थं द्रष्टव्याः असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी। विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥१॥ विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविणमूत्रमेदः कृमिकुलाकुलम् ॥२॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम् । इति चर्मपिनई सत्कामिनीति विधीयते ॥३॥ मेदोग्रन्थो स्तनौ नाम तो स्वर्णकलशौ कथम् । विष्ठाहतो नितम्बे च कोऽयं हेमशिलाभ्रमः ॥४॥ मूत्रामृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहोः पुंसां विडम्बना ॥५॥ प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्क स्थनि तथा पुसः स्वधातुस्पन्दिनः स्त्रियाम् ॥६॥ व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुघुरा। कथमद्य न रागाय म्रियमाणा तपस्विनी ॥७॥ अहो व्रणे वराकोऽयमकाले तृषितः फणी । प्रसारितमुखोऽप्यास्ते शोणितं पातुमागतः ।।८।। किमनेनापराडं नः स्वभावो वस्तुनः स्वयम् । स्पश्यमानो दहत्यग्निरिति कोऽस्मै प्रकुप्यति ॥९॥ नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये । स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥१०॥” इति। विषयदोपदर्शनप्रयुक्ताभिलाषनिवृत्तिसुखं तु विषयोपभोगाधीनाभिलापनिवृत्तिसुखापेक्षया-ऽतिविशिष्टतरम् । किन्तु भवन्मते तत्कथं संघटेत् ? यतो भवन्मतमनुसृत्य विषयेषु दोषदर्शनेन जायमानं सुखं विषयोपभोगोत्पन्नसुखेन तुल्यं स्यात् , सुखत्वेनभिमताभिलापनिवृत्तरभावरूपाया अविशेषात् । न चैकत्रा-ऽभिलाषातिरेकात् तन्निवृत्तौ सुखातिरेकाभिमानः, अन्यत्रा-ऽन्यथेति वाच्यम् , यतोऽभिलापातिरेकेण प्रयस्यन्तं प्राप्तोऽर्थो न तथा प्रीणयति, यथाऽप्रार्थितः प्रयासा- द्विनोपनतः । लोकव्यवहारोऽप्येवमेव, यत्नसहस्रण प्राप्तः क्लेशप्राप्तोऽयमिति, न तेन तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org -

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786