Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 664
________________ सिद्धशिलानिरूपणम् ] सिद्धानामवस्थितिः [५०७ "दग्धे बोजे यथाऽत्यन्तं प्रादुर्भवति ना-कुरः । कर्मयोजे तथा दग्धे नारोहति भवाङकुरः ॥१॥” इति । नन्वीपत्प्रागभारा किस्वरूपा ? इति चेत्, उच्यते-सवार्थसिद्धवरविमानावं लोकस्य मूर्धन्यायामविष्कम्भाभ्यां पश्चचत्वारिंशयोजनलक्षप्रमाणा (४५,००,०००), उत्तानच्छत्राकृतिः परिधिगणितेनैकोनपश्चाशदधिकद्विशतोत्तरत्रिंशत्सहस्राधिक वाचत्वारिंशच्छतसहस्राधिकैककोटीयोजनप्रमिता (१,४२,३०, २४९), मध्यभागे योजनाऽष्टकवाहल्या-ऽऽयामविष्कम्भाभ्यां चा-ऽष्टयोजनप्रमाणा, ततो मध्यभागात् परतः सर्वासु दिक्षु विदिक्षु च क्रमशः प्रतियोजनमगुलपृथक्त्वेन हीना हीनतरा प्रान्ते चा-ऽङ्गुलसंख्येयभागप्रमाणा सती मक्षिकापत्रादपि तनुतरा भवति, औपपातिकसूत्रे तु "अंगुलस्स असंखेज्जभागं बाहल्लेणं पण्णत्ता" इत्युक्तम् , एवं प्रज्ञापनादिसूत्रेष्वपि । इयश्च पृथिवीकायिकैर्निर्वर्तिता मनोहरा सुरभिश्च । तथा चोक्तमावश्यकनियुक्ती "ईसोपभाराए सीआए जोअणम्मि लोगंतो। बारसहिं जोयणेहि सिद्धी सव्वत्थसिद्धाओ ॥१॥ निम्मलदगरयवन्ना तुसारगोखोरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ अ भणिआ जिणवरेहिं ॥२॥ एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो चव सया अउणवन्ना ॥३॥ बहुमज्झदेसभाए अहव च जोयणाइ बाहल्लं। चरिमंतेसु अ तणुई अंगुलसंखिज्जई भागं ॥४॥ गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहुत्तं । तीसे वि अ पेरंते मच्छिअपत्ताउ तणुअयरा ॥५॥" इति । एवंभूताया ईरत्यागभारायाः पृथिव्या ऊर्ध्व सिद्धाः स्थिताः, इदं तु सामान्येन सिद्धानामवस्थानं भणितम् , विशेषतः पुनरेवंभूताया ईपत्मागभारायाः पृथिव्या उपरि यद्योजनम्, तस्य योजनस्य यः क्रोशः, तस्योपरितने षड्भागे स्वचरमभवसंस्थानस्य त्रिभागहीना-ऽवगाहनया सिद्धा अतिष्ठन्ते । यदुक्तमागमे इंसीपभाराए उवरिंखलु जोअणस्स जो कोसो। कोसस्स य छन्भाए सिडाणोगाहणा भणिआ।" इति । ननु प्रस्तुतगाथया कर्माष्टकप्रक्षयादनन्तज्ञानाद्यष्टगुणसंप्राप्तिलक्षणो मोक्षः प्रतिपाद्यते, स च विचार्यमाणो निरुक्तलक्षणो नोपपद्यते, किन्तु बुद्धयादिविशेषगुणोच्छेदरूप इत्याद्याहुर्नैयायिकादयः। तथाहि-तदत्यन्तविमोक्षोऽपवर्गः (गो० १-१-२२) इति गोतमसूत्रे तत्सर्वनाम्ना सर्वेषामात्मविशेषगुणानां बोधनाद् नवानामात्मविशेषगुणानां बुद्धयादीनामत्यन्तोच्छेदो मोक्ष Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786