Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 658
________________ अस्पृशद्गत्यादिकम् ] अयोगिगुणस्थानाद्धाधिकारः [ ५०१ चरमसमये दलिकं दृश्यते एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः । आनुपूर्वी नाम्नां तु चतुर्णामपि क्षेत्रविपाकितया भवापान्तरालगतावेवोदय:, तेन न भवस्थस्य तदुदयसम्भवः, तदसम्भवाच्चाऽयोग्यवस्थाद्विचरमसमये एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः इति तन्मतेन द्विचरमसमये त्रिसप्ततिप्रकृतीनां सत्ताव्यवच्छेदः, चरमसमये द्वादशानामिति ।" इदन्त्ववयम् - सामान्यकेवलिनोऽधिकृत्य चरमसमय एकादशप्रकृतीनां सत्ताविच्छेदस्तेषां मतेन भवति । तत्त्वं त्वत्र केवलिनो बहुश्रुता वा विदन्ति । अथ क्षीणेवातिकर्म यद्भवति तद्वक्कुकाम आह- 'सिज्झइ' इत्यादि, तत्र 'क्षणेन' एकवचननिर्देशाद् एकसमयेन समय प्रदेशान्तरमस्पृशन् 'सिध्यति ' केवलज्ञानोपयागेनोपयुक्त ऋजुश्रेण्या सिद्धिं गच्छति । उक्तं च कषायप्राभृतचूर्णिकारै:- "सेलेसि अडाए झोणाए सव्वकम्मविप्मुको एसमएण सिद्धिं गच्छइ ।" इति । तथैवाऽऽह भगवान् भाष्यकार:“रिउसेढोपडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो || १ ||" इति । ऋजुश्रेण्या समयान्तरं स्वा ऽवगाढप्रदेशान्तरञ्चा-ऽस्पृशन्नेव यावत्स्वाकाशप्रदेशेष्ववगाढः, तावतः प्रदेशानवगाहमानः केवलज्ञानोपयुक्तो लोकान्तं गच्छतीत्यर्थः । यदुक्तमावश्यकचूर्णो- “जथा उज्जुसेढिपत्तो जत्तिए जोवो अवगाहे, तावतियाए अवगाहणाए उड्ढं उज्जुगं गच्छति, ण वंकं, अफुसमाणगतो, बितियं समयं ण फुसति, अहवा जेसु अवगाढो जे य फुसति, उड्ढमपि गच्छ्रमाणो ततिए चेव आगासपदेसे फुसे माणो गच्छति, सरोऽपि ततोऽधिके परिपेरंतेण बहिं, एगसमपणं असरीरेणं अकुडिलेण वा उड्ढ गंता, न तिर्यग अधो वा भ्रमति वा, सागारोवउत्ते सिज्झति ।" इति । क्षीणेष्वघातिकर्मसु जीव-चरमभवशरीरयोविंयोगः सिध्यमानस्य गतिलोंकान्तप्राप्तिश्चेत्येतत्त्रयमेकसमयेनाऽचिन्त्यसामर्थ्याद् युगपद् भवति । यदुक्तं श्रीतत्त्वार्थभाष्ये- "कर्मक्षये देहवियोग- सिध्यमानगति-लोकान्तप्राप्तयो ह्यस्य युगपदेकसमयेन भवन्ति ।" इति केचिदाहुः - कर्मक्षयकालो देहवियोगादिसमकाल एव भवतीति । उक्तञ्च सप्ततिकाचूर्णौ"ततो कम्मविमोक्खसमए चेव उड्ढं गच्छति लोकान्तम् ।" इति । मतद्वयमपि तत्त्वावृत्तौ सङ्गृहीतम् । अक्षराणि त्वेवम् - तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छतिXXXXतस्य अचिन्त्यसामर्थ्याच्चैतत् सर्व युगपद् भवति देहवियोगादि । केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति ।" इति । अयमत्र विवेक:-व्यवहारनयेन क्रियाकाल-निष्ठाकालयोर्भेदः, reader भेदः । तेन प्रथममतेन कर्मक्षयानन्तरं देहवियोगादि भवति, द्वितीयमतेन तु सर्व युगपद् भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786