Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 595
________________ ४३८ ]. ... खबगसेढी. .... .. ... ... .. गाथा--२२९ ततः परं क्षीणकषायगुणस्थानकचरमसमये केवलज्ञानावरणकेवलदर्शनावरण-दान-लाभ-भोगोपभोग-वीर्या-ऽन्तरायाणां तथा सर्वोत्कृष्टचतुर्दशपूर्वधरं प्रतीत्य मतिज्ञानावरण-श्रतज्ञानावरण-चक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां, प्राप्तावधिज्ञानांश्च जीवानाश्रित्याऽवविद्वि कस्य तथा विपुलमतिं प्रतीत्य मनःपर्यत्रज्ञानावरणस्य जघन्यानुभागोदयो जायते, तथा गुणितकमांशस्य शीघ्र क्षपकश्रेणिमारूढस्य चतुर्दशप्रकृतीनां मतिज्ञानावरणादीनामुत्कृष्टप्रदेशोदयो जापते, नवरं प्राप्ताऽवधिलब्धिकस्य न वाच्यः, अवधिप्राप्तौ प्रभूतानां प्रदेशानां परिशटनात् । उक्तश्च कर्मप्रकृतिवृत्तौ-"नवरं ज्ञानावरणपञ्चकाऽन्तरायपञ्चक-दर्शनावरणचतुष्टय-वेदत्रय-संज्वलनलोभ-सम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वा-अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्यानुभागोदयो वाच्यः। xxx 'आवरण' ति आवरणं-पञ्चप्रकारं ज्ञानावरणं चतुष्पकारं दर्शनावरणं 'विग्ध' त्ति पञ्चप्रकारमन्तरायं एतासां चतुर्दशप्रकृतीनां लघुक्षपणया-शीघ्रक्षपणार्थ अभ्युद्यतस्य । विविधा हि क्षपणा लघुक्षपणा चिरक्षपणा च। तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नः, तत्प्रतिपत्त्यनन्तरं चाऽन्तर्मुहूर्तेन क्षपकश्रेणिमारभते । तस्य या क्षपणा, सा लघुक्षपणा । यस्तु प्रभूतेन कालेन संयमं प्रतिपद्यते, संयमप्रतिपतेरप्यूवं प्रभूतेन कालेन क्षपकश्रेणिमारभते, तस्य या क्षपणा, सा चिरक्षपणा । तया च प्रभूताः पुद्गलाः परिशटन्ति, स्तोका एव च शेषा भवन्ति । ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्त लघुक्षपणयाऽभ्युस्थितस्येति । तस्य गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणिशिरसि वर्तमानस्योत्कृष्टप्रदेशोदयो भवति । नवरं 'ओहोण णोहिलडिस्स' त्ति अवध्योरवधिज्ञानावरणाऽवधिदर्शनावरणयोरनवधिलब्धिकस्या-ऽवधिलधिरहितस्य क्षपणायोस्थितस्योकृत्टः प्रदेशोदयो वाच्यः । अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिशटन्ति-क्षोयन्ते। ततो नाऽवधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम् ।” इति । तदानीमेव मूलकर्माऽपेक्षया ज्ञानावरण-दर्शनावरण-ऽन्तरायाणामुत्तरकापेक्षया च पञ्चज्ञानावरण--चतुर्दर्शनावरण-पश्चाऽन्तरायाणां जघन्यस्थित्युदयो भवति, कमप्रकृतिवृत्तौ श्रीमन्मलयगिरिपादैः "* षट्त्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमाौकस्थित्युदय ★ पटत्रिंशत्प्रकृतयो नामतः पुनरिमाः-ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कं सातवेदनीयमसातवेदनीयं संज्वलनलोभो वेदत्रिकं सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं चत्वार्यायुष्माणि मनुष्याति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त-सुभगा-ऽऽदेय-यशःकीर्तयो जिननामोच्चैर्गोत्रमन्तरायपश्चकं चेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786