Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
४६२ ]
खवगसेढी
[गाथा--२३७ तृतीयसमये बह्वसंख्यभागमात्रानात्मन: प्रदेशांश्च ।
विस्तारयति प्रतरे स्थितिरसयो_तस्तु पूर्ववत् ।।२३७।। इति पदसंस्कारः ।। 'तइयः' इत्यादि, तृतीयसमये समुद्घातस्य तृतीयसमये बह्वसंख्येयभागमात्रान् 'आत्मनः' जीवस्य प्रदेशान् दक्षिणोत्तरदिशयोः पूर्वापरदिशोर्वा विस्तारयति, चकारः पादपूरणे । इदमुक्त भवति-कपाटं कुर्वता द्वितीयसमये ये-ऽसंख्येयभागमात्राः स्वशरीरे प्रदेशाः परित्यक्ताः, तेषामसंख्येयभागान् कृत्वैका-ऽसंख्येयभागं'तत्रैव शरीरे विमुच्य शेषान् बह्वसंख्येयभागान् निष्क्रमयति, ते च निष्क्रमिताः प्रदेशा द्वितीयसमयनिष्क्रमितप्रदेशतो-ऽसंख्येयगुणहीना भवन्ति । तान् निष्क्रमितान् जीवप्रदेशान् दक्षिणोत्तरदिशयोः प्राक्प्रत्यदिशोर्वा प्रसारयन् द्वितीयसमयकृतकपाटं लोकान्तप्रापि प्रतरं करोति, अवकाशान्तराणि तूद्धरन्ति । उक्त चा-ऽऽवश्यकचूणौं-"अथ तृतीयसमये प्रतरपूरकाणां को विधिरिति प्रश्न प्रतिबमहे, ततो द्वितोयसमये निर्गतात्मप्रदेशसकाशात् यो-ऽसंख्येयभागोऽवतिष्ठते. इत्युक्त असावपि बुद्धया पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणामसंख्येयभागा निष्कामन्ति, असंख्येयभागो-ऽवतिष्ठते, तैरसंख्येयैर्भागैर्निगतरेतैः प्रतरं पूरयंति । तत्र ये निष्क्रान्तास्ते द्वितीयसमयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः ।” इति । तृतीयसमये प्रतराकारेण जीवप्रदेशान् विस्तारयन् भगवान् लोकस्य बह्वसंख्येयभागान् स्पृशति, यतोऽवकाशान्तराणामपूरितत्वादसंख्येयभागो न स्पृश्यते ।। उक्तञ्चाऽऽवश्यकवृत्तौ-"तृतीयसमये तदेव कपादं दक्षिणोत्तरं पूर्वापरं वा दिग्वयप्रसारणात् मथिसदृशं मन्थानं लोकान्तप्रापिणमारचयति, एवं च प्रायो लोकस्य बहु पूरितं भवति, मन्थान्तराण्यपूरितानि जीवप्रदेशानामनुश्रेणिगमनात् ।” इति । एवं प्रज्ञापनावृत्तावपि ।
न च प्रमाणतयोपन्यस्तग्रन्थे मन्थानकारकस्य लोकबहसङ्ख्यभागमानं क्षेत्रं प्रतिपादितम् , न तु प्रतरकारकस्येति वाच्यम् , शब्दभेदेन भेदेऽप्यर्थभेदेन भेदा-ऽभावात् । न चाऽस्तीहाऽर्थभेदेन भेदे किञ्चित् प्रमाणम् । न च स्वदेहप्रमाणबाहल्यादखण्डदण्डावच्छिन्नरूपात् कपाटमध्यभागादेव कपाटस्य मन्थानीकरणम् , न त्वखण्डस्य कपाटस्थ । एवञ्च लोकान्तगामी पूर्वापरविस्तीर्णो दक्षिणोत्तरविस्तीर्णो वैकः कपाटः, इतरस्तु दक्षिणोत्तरविस्तीर्णः पूर्वापरविस्तीणों वा । इत्थं कपाटद्वयात्मक एव मन्थानः । ततश्च तृतीयसमयेऽवकाशान्तराग्यप्युद्धरन्ति, चतुर्थसमये तु तत्पूरणं भवति । एवमष्टसामयिकत्ववचनमपि न विरुध्यत इत्यस्त्यर्थभेदेन भेदे प्रमाणमिति वाच्यम् , एतादृशमन्थानार्था-ऽभ्युपगमे मथिकरणावस्थायां स्नातकस्य लोका-ऽसंख्येयभागप्रमाणावगाहनाप्रसङ्गेन व्याख्याहप्रज्ञप्तिवृत्तिग्रन्थोक्तवचनेन सह विरोधोद्भवात् । तथाहि- भवदभिप्रायेण मन्थानकरणकाले स्नातकस्यावगाहना लोकाऽसंख्येयभागमात्री स्यात् , लोकाऽसंख्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786