Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
खवगसेढी , .
४६८ ]
[ गाथा-२४२-२४३ सप्तमसमये दण्डे तिष्ठत्यष्टमक्षणे शरीरस्थः । प्रथमाऽष्मसमययोर्योग औदारिको भवति ॥२४२॥ सप्तम-षष्ठ-द्वितीयसमयेषु मिश्रश्च कार्मणो योगः ।
तृतीय-तुरिय-पञ्चमसमयेषु निरुणद्धि ततो योगम् ।।२४३।। इति पदसंस्कारः । 'सत्तमः' इत्यादि, 'सप्तमसमये समुद्घातस्य सप्तमसमये दण्डे' कपाटं संहृत्य दण्डे तिष्ठति, दण्डस्थस्य महात्मनः स्थितिघातोऽनुभागघातश्च पूर्वारब्धा एव प्रवर्तेते, तयोरद्धाया आन्तौहूर्तिकत्वात् ।
'अट्ठम०' इत्यादि, तत्र 'अष्टमक्षणे' समुद्घातस्या-ऽष्टमे समये 'शरीरस्थः' स्वशरीरप्रविष्टाऽऽत्मप्रदेशको भवतीति शेषः । अत्रा-ऽपि स्थितिघातोऽनुभागघातश्च पूर्वारब्धा एव प्रवतेते । अन्तमुहूर्ते पूर्णे स्थितिघातोऽनुभागघातश्च पूर्णौ भवतः । ततः पुनरन्यस्थितिखण्डमनुभागखण्डं च घातयितुमुपक्रमते । तच्चा-ऽन्तमुहूर्तकालेन निःशेषतो विनाशयति । एवमान्तौहूर्तिकः स्थितिघातकालोऽनुभागघातकालश्च तावदवगन्तव्यौ, यावत् सयोगिगुणस्थानकचरमसमयः । तावति कालेऽमृनि सर्वाणि स्थितिखण्डान्यनुभागवण्डानि च संख्येयानि व्यतिक्रामन्ति, यदभिहितम् आवश्यकचूर्णी-"तदनेन विधिना-ऽन्तर्मुहूर्तपूरणचरमसमयाऽनन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यवसेयं उत्कीर्ण नटमित्यर्थः । एवं प्रतिसमयमन्तमु हर्तिकः स्थित्यनुभवकण्डकघातको ज्ञेयः तावद्यावत् सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संख्ययानि स्थित्यनुभवकण्डकानि ज्ञेयानि ।” इति ।
___ तावत्काले सर्वाण्यमूनि स्थितिकण्डकान्यनुभागकण्डकानि चा-ऽसंख्येयानि व्यतिक्रा. मन्तीति ग्रन्थान्तरे दृश्यते, तथा चात्र श्रीमलयगिरीया-ऽऽवश्यकवृत्तिः-"अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्उकं चाऽन्तमुहर्तेन कालेन विनाशयति, षष्ठादिषु च समयषु कण्उकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति, यावदन्तमुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्णं भवति । एवमन्तमुहूर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च घातयन् तावद्वेदितव्यः, यावत्सयोग्यवस्थाचरमसमयः । सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानि।” इति । तत् त्वशुद्ध प्रतिभाति, स्थितिखण्डस्या-ऽऽवलिका-ऽसंख्येयभागमात्रत्वस्वीकारप्रसङ्गात् । कथम् ? इति चेद्, उच्यते-समुद्यातचतुर्थसमये वेदनीयादीनां कर्मणां स्थितिसच्चमायुष्कस्थितिसत्कर्मतः संख्येयगुणं जायते । तच्च दर्शितमेकोनचत्वारिंशदधिकद्विशततमगाथया। आयुष्कस्थितिसत्कर्म त्वन्तमुहूर्तप्रमाणं भवति,अन्तमुहूतमात्र आयुषि शेषे समुद्यातारम्भात् । तेन वेदनीयादीनां स्थितिसत्कर्म समुद्यातपञ्चमादिसमयेषु संख्येयावलिकातोऽधिकं न भवति । यदि समुद्घातभवनात् परमसंख्येयानि स्थितिखण्डानि व्यतिक्रमेयुः, तर्हि संख्येयावलि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786