Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 636
________________ योगस्या-ऽपूर्वस्पर्धकनिरूपणम् ] सयोगिगुणस्थानाद्धाधिकारः क्रियन्ते । न चैवंभूतान्यनादौ संसारे भ्रमताऽऽत्मना कदाचिदपि कृतानि, तेनाऽपूर्वस्पर्धकानि व्यपदिश्यन्ते ॥२४७॥ नन्वपूर्वस्पर्धककरणे को विधिः ? इति पृष्ट आहपुव्वगफड्डाणं पढमवग्गणाअ विरियाविभागाणं । तह जीवपओसाण ओकड़ ढिज्जा असंखंसं ॥२४८॥ पूर्वस्पर्धकानां प्रथमवर्गणाया वीर्याऽविभागानाम् । तथा जीवप्रदेशानामपकर्पत्यसंख्यांशम् ।।२५८।। इति पदसंस्कारः ।। 'पुव्वगः' इत्यादि, पूर्वस्पर्धकानां प्रथमवर्गणायाः 'वीर्याऽविभागानां' योगाऽविभागानां तथा 'जीवप्रदेशानां' पूर्वस्पर्धकप्रतिबद्धानां जीवप्रदेशानाम् 'असंख्यांशम्' असंख्येयभागमपकर्षति । उक्तं च कषायप्राभृतचूर्णी-“पढमसमए अपुव्वफद्दयाणि करेदि पुव्वफद्दयाणं हेहदो । आदिवग्गणाए अविभागपउिच्छेदाणमसंखेजदिभागमोकडदि । जीवपदेसाणं च असंखेजदिभागमोकडदि ।” इति । इदमुक्त भवति-पूर्वस्पर्धकैषु लोकाकाशप्रदेशप्रमिता जीवप्रदेशास्तिष्ठन्ति । तत्र पूर्वस्पर्धकप्रथमादिवर्गणाभ्यो-ऽसंख्येयभागप्रमाणान् जीवप्रदेशानपकृष्य पूर्वस्पर्धकजघन्यवर्गणागतवीर्या-ऽविभागसत्काऽसंख्येयभागप्रमाणवीर्या-ऽविभागविशिष्टान्यपूर्वस्पर्धकानि निर्वतयति । ततः पूर्वस्पर्धकप्रथमवर्गणागतवीर्या ऽविभागतोऽसंख्येयगुणहीना वीर्या-ऽविभागा अपूर्वस्पर्धकचरमवर्गणायां भवन्ति । ते-ऽपि पुनरसंख्येवलोकाकाशप्रदेशप्रमिताः । एवमपूर्वस्पर्धकप्रथमवर्गणायामप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणा वीर्या-ऽविभागा भवन्ति । किन्त्वयं विशेषः-प्रथमा-ऽपूर्वस्पर्धकप्रथमवगणायां वीर्याऽविभागाः स्तोका भवन्ति, ततो द्वितीयवर्गणायामेकेनाधिका वीयर्याविभागा भवन्ति, ततोऽप्ये फेनाऽधिकास्तृतीयवर्गणायां भवन्ति । एवमेकोत्तरवृद्धया-ऽग्रेऽपि वर्गणा वक्तव्याः । ___ अथ व्यवहारनयेनाऽपकृष्टजीवप्रदेशानां प्रक्षेपो निगद्यते-अपूर्वस्पर्धककरणप्रथमसमये पूर्वस्पर्धकेभ्योऽसंख्येयभागप्रमितान् जीवप्रदेशानादाया-ऽपूर्वस्पर्धकप्रथमवर्गणायां प्रभूतानात्मप्रदेशान् ददाति, अल्पयोगे परिणम्यमानजीवप्रदेशानां प्रभूतत्वसंभवात् । ततो विशेषहीनानपूर्वस्पर्धकस्य द्वितीयवर्गणायामात्मप्रदेशान् ददाति, ततो-ऽपि विशेषहीनाँस्तृतीयवर्गणायाम् । एवं विशेषहीनक्रमेण तावद् ददाति, यावदपूर्वस्पर्धकचरमवर्गणा । अपूर्वस्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामसंख्यातगुणहीनानात्मप्रदेशान् ददाति । तत ऊर्ध्वं विशेषहीनक्रमेण तावद् ददाति, यावत् पूर्वस्पर्धकचरमवर्गणा । अत्र जीवप्रदेशान् ददातीत्यनेन तावन्तो जीवप्रदेशाः प्रथमादिवर्गणागतयोगाऽविभागेषु परिणमन्तीति ग्राह्यम्, न ह्यमूर्तानां जीवप्रदेशानामादानप्रदानौ संभवतः परमार्थतः। प्रथमसमये क्रियमाणान्यपूर्वस्पर्धकानि सूचिश्रेणेरसंख्येयभागमात्राणि भवन्त्यपि पूर्वस्पर्धकानामसंख्येयभागप्रमाणानि भवन्ति ॥२४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786