________________
योगस्या-ऽपूर्वस्पर्धकनिरूपणम् ] सयोगिगुणस्थानाद्धाधिकारः क्रियन्ते । न चैवंभूतान्यनादौ संसारे भ्रमताऽऽत्मना कदाचिदपि कृतानि, तेनाऽपूर्वस्पर्धकानि व्यपदिश्यन्ते ॥२४७॥
नन्वपूर्वस्पर्धककरणे को विधिः ? इति पृष्ट आहपुव्वगफड्डाणं पढमवग्गणाअ विरियाविभागाणं । तह जीवपओसाण ओकड़ ढिज्जा असंखंसं ॥२४८॥ पूर्वस्पर्धकानां प्रथमवर्गणाया वीर्याऽविभागानाम् । तथा जीवप्रदेशानामपकर्पत्यसंख्यांशम् ।।२५८।। इति पदसंस्कारः ।।
'पुव्वगः' इत्यादि, पूर्वस्पर्धकानां प्रथमवर्गणायाः 'वीर्याऽविभागानां' योगाऽविभागानां तथा 'जीवप्रदेशानां' पूर्वस्पर्धकप्रतिबद्धानां जीवप्रदेशानाम् 'असंख्यांशम्' असंख्येयभागमपकर्षति । उक्तं च कषायप्राभृतचूर्णी-“पढमसमए अपुव्वफद्दयाणि करेदि पुव्वफद्दयाणं हेहदो । आदिवग्गणाए अविभागपउिच्छेदाणमसंखेजदिभागमोकडदि । जीवपदेसाणं च असंखेजदिभागमोकडदि ।” इति । इदमुक्त भवति-पूर्वस्पर्धकैषु लोकाकाशप्रदेशप्रमिता जीवप्रदेशास्तिष्ठन्ति । तत्र पूर्वस्पर्धकप्रथमादिवर्गणाभ्यो-ऽसंख्येयभागप्रमाणान् जीवप्रदेशानपकृष्य पूर्वस्पर्धकजघन्यवर्गणागतवीर्या-ऽविभागसत्काऽसंख्येयभागप्रमाणवीर्या-ऽविभागविशिष्टान्यपूर्वस्पर्धकानि निर्वतयति । ततः पूर्वस्पर्धकप्रथमवर्गणागतवीर्या ऽविभागतोऽसंख्येयगुणहीना वीर्या-ऽविभागा अपूर्वस्पर्धकचरमवर्गणायां भवन्ति । ते-ऽपि पुनरसंख्येवलोकाकाशप्रदेशप्रमिताः । एवमपूर्वस्पर्धकप्रथमवर्गणायामप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणा वीर्या-ऽविभागा भवन्ति । किन्त्वयं विशेषः-प्रथमा-ऽपूर्वस्पर्धकप्रथमवगणायां वीर्याऽविभागाः स्तोका भवन्ति, ततो द्वितीयवर्गणायामेकेनाधिका वीयर्याविभागा भवन्ति, ततोऽप्ये फेनाऽधिकास्तृतीयवर्गणायां भवन्ति । एवमेकोत्तरवृद्धया-ऽग्रेऽपि वर्गणा वक्तव्याः ।
___ अथ व्यवहारनयेनाऽपकृष्टजीवप्रदेशानां प्रक्षेपो निगद्यते-अपूर्वस्पर्धककरणप्रथमसमये पूर्वस्पर्धकेभ्योऽसंख्येयभागप्रमितान् जीवप्रदेशानादाया-ऽपूर्वस्पर्धकप्रथमवर्गणायां प्रभूतानात्मप्रदेशान् ददाति, अल्पयोगे परिणम्यमानजीवप्रदेशानां प्रभूतत्वसंभवात् । ततो विशेषहीनानपूर्वस्पर्धकस्य द्वितीयवर्गणायामात्मप्रदेशान् ददाति, ततो-ऽपि विशेषहीनाँस्तृतीयवर्गणायाम् । एवं विशेषहीनक्रमेण तावद् ददाति, यावदपूर्वस्पर्धकचरमवर्गणा । अपूर्वस्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामसंख्यातगुणहीनानात्मप्रदेशान् ददाति । तत ऊर्ध्वं विशेषहीनक्रमेण तावद् ददाति, यावत् पूर्वस्पर्धकचरमवर्गणा । अत्र जीवप्रदेशान् ददातीत्यनेन तावन्तो जीवप्रदेशाः प्रथमादिवर्गणागतयोगाऽविभागेषु परिणमन्तीति ग्राह्यम्, न ह्यमूर्तानां जीवप्रदेशानामादानप्रदानौ संभवतः परमार्थतः। प्रथमसमये क्रियमाणान्यपूर्वस्पर्धकानि सूचिश्रेणेरसंख्येयभागमात्राणि भवन्त्यपि पूर्वस्पर्धकानामसंख्येयभागप्रमाणानि भवन्ति ॥२४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org