________________
1-२४६-२४७
४७८ ]
खवगसेढी (१), एवं बादरवाग्योगं (२) तत उच्छ्वासं (३) ततः काययोगं (४) अपान्तराले एकस्य २ अन्तर्मुहूर्तस्य विश्रम्येत्यष्टावन्तर्मुहुर्ता इति ।" ॥२४५॥
___ अभिहितो बादरयोगनिरोधः कषायप्राभूतचूर्णिकारादीनामभिप्रायेण, साम्प्रतं तन्मतेन सूक्ष्मयोगनिरोधं विवर्णयिषुराह
सुहुमेण कायजोगेण कमा सुहुमाणि चउमणाईणि । रुम्भइ गंतूणं गंतूणं अंतोमुहुत्तं तु ॥२४६॥
सूक्ष्मेण काययोगेन क्रमात् सूक्ष्माणि चतुर्मनआदीनि ।
रुणद्धि गत्वा गत्या--ऽन्तमु हुतं तु ॥२४६।। इतिपदसंस्कारः । 'सुह मेण' इत्यादि, 'सूक्ष्मेण काययोगेन' मूक्ष्मकाययोगवलेन क्रमात् सूक्ष्माणि 'चतुर्मनआदोनि' चतुःसंख्याकानि मनोयोगवचनयोगोच्छ्वासकाययोगरूपाणि ‘अन्तर्मुहूर्त तु' अन्तमुहूर्तप्रमाणं तु कालं गत्वा गत्वा 'रुणद्धि' निरुणद्धि । भावार्थः पुनरयम्-बादरकाययोगनिरोधाऽनन्तरमन्तमुहर्त गत्वा सूक्ष्मकाययोगबलात् सूक्ष्ममनोयोगं निरुणद्धि । ततः सूक्ष्ममनोयोगनिरोधानन्तरमन्तमुहर्तकालेन सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्मवचनयोगं निरुणद्धि, ततः सूक्ष्मवचनयोगनिरोधानन्तरमन्तमुहूर्तकालेन सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्मोच्छवासं निरुणद्धि । ततो-ऽन्तमुहूर्तं गत्वा सूक्ष्मकाययोगबलेन सूक्ष्मकाययोगमपि निरुणद्धि । उक्तच कषायप्राभृतचूर्णी-“तदो अंतोमुहुत्तं गंतॄण मुहुमकायजोगेण सुहममणजोगं णिरु भइ । तदो अंत्तोमुहुत्तेण सुहुमकायजोगेण सुहमवचिजोगं निरु भइ । तदो अंतोमुहत्तण सुहमकायजोगेण सुहुमउस्सासं णिरु भइ । तदो अंतोमुहुत्त गंतूण सुहमकायजोगेण सुहुमकायजोगं णिभमाणो इमाणि करणाणि करेदि xxi" इति ॥२४६॥
अथ सूक्ष्मकाययोगं निरुन्धानो यत्करोति, तदाह
सुहुमं सरीरजोगं णिरुम्भमाणो अपुव्वफड्डाणि। कुणइ पढमसमया पहुडि पुब्बफड्डाण हे?म्मि ॥२४७॥
सूक्ष्मं शरीरयोग निरुन्धानो- पूर्वस्पर्धकानि ।।
करोति प्रथमसमयात् प्रभृति पूर्वस्पर्धकानामधस्ताद् ।।२४७।। इति पदसंस्कारः । 'सुहुमं' इत्यादि, सक्ष्मकाययोगाऽवलम्बनेनैव सक्ष्म 'शरीरयोग' काययोगं निसन्धानः 'प्रथमलमयात्' सूक्ष्मकाययोगनिरोधप्रथमसमयतः प्रभृति 'पूर्वस्पर्धकानां' योगस्य पूर्वस्पर्धकानामधस्ताद् अपूर्वस्पर्धकानि करोति' निर्वर्तयति । इदमुक्तं भवति-पर्याप्तिपर्यायेण परिणतात्मना पूर्वमेव योगनिवृत्यर्थं यानि योगस्पर्धकान्युपात्तानि, यानि चा-ऽनादौ संसारे पुनः पुनर्योगनिर्वर्तनार्थ पूर्वमुपात्तान्यात्मना, तानि सर्वाणि पूर्वस्पर्धकानि व्यपदिश्यन्ते । तेषां स्वरूपं तु बन्धनकरणादितो-ऽवसेयम् । तानि पूर्वस्पर्धकान्यधुना सूक्ष्मीकृत्या-ऽपूर्वस्पर्धकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.