________________
४८० ]
खवगसेढी
[ गाथा-२४९-२५० नन्वपूर्वस्पर्धकानि कियन्तं कालं केन च क्रमेण करोति, एवं जीवप्रदेशांश्च केन क्रमेणाऽपकर्षति ? इत्यत आहकुणए अपुव्वफड्डाणि मुहुरांतो असंखगुणहाणीए। तह जीवपअसा उ असंखेज्जगुणकमेण ओकड्डिज्जा॥२४९॥(आर्यागीतिः)
करोत्यपूर्वस्पर्धकानि मुहूर्तान्तरसंख्यगुणहान्या ।'
तथा जीवप्रदेशांस्त्वसंख्येयगुणक्रमेणा-ऽपकर्षति ॥२४९॥ इति पदसंस्कारः । 'कुणए' इत्यादि, तत्र 'मुहूर्तान्तः' अन्तर्मुहूर्तम् 'असञ्जयगुणहान्या' असङ्ख्यातगुणहीनक्रमेणा-ऽपूर्वस्पर्धकानि 'करोति' निर्वर्तयति । भावार्थः पुनरयम्-प्रथमसमये यावन्त्यपूर्वस्पर्धकानि करोति, ततोऽसंख्येयगुणहीनानि प्रथमसमयकृता-ऽपूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि द्वितीयसमये करोति । ततोऽप्यसंख्येयगुणहीनानि तृतीयसमये, एवमसंख्येयगुणहीनक्रमेणा-ऽपूर्वस्पर्धकानि तावत् करोति, यावदन्तर्मुहूर्तचरमसमयः । 'तह' इत्यादि, अपूर्वस्पर्धकानि कुर्वन् जीवप्रदेशांस्त्वसंख्येयगुणक्रमेणा-ऽपकर्षति, तुर्वाक्यभेदे । अयं भावः- अपूस्पर्धकानि कुर्वन् प्रथमसमये यावतो जीवनदेशानपकर्षति, ततो द्वितीयसमये-ऽसंख्येयगुणाजीवप्रदेशानपकर्षति, ततोऽपि तृतीयसमयेऽसंख्येयगुणान् । एवमसंख्येयगुणक्रमेण ताबदपकर्षति, यावदन्तमुहूर्त चरमसमयः । उक्त च कषायप्राभृतचूणौँ-"एवमन्तोमुहुत्तमपुव्वफद्दयाणि करेदि असंखेजगुणहोणाए सेढोए, जोधपदेसाणं च असंखेजगुणाए सेढीए ।” इति । ।।२४९॥ अथ योगम्याऽपूर्वस्पर्धकानां प्रमाणमभिधित्सुराह
इह सेढिवग्गमूलस्स असंखंसो अपुवफड्डाइं। हुन्ते असंखभागो पुविल्लाणं वि फड्डाणं ॥२५०॥ इह श्रेणिवर्गमूलस्या-ऽसंख्यांशोऽपूर्वस्पर्धकानि ।
भवन्त्यसंख्यभागः पूर्वेषामपि स्पर्धकानाम् ।।२५०।। इति पदसंस्कारः । 'इह' इत्यादि, 'इह' योगनिरोधप्रकरणेऽपूर्वस्पर्धकानि 'श्रेणिवर्गमूलस्य' सूचिश्रेणिप्रथमवर्गमूलस्य 'असंख्यांशः' असंख्ययभागमात्राणि भवन्ति ।
ननु योगस्य पूर्वस्पर्धकान्यपि सचिश्रेणिप्रथमवर्गमूलाऽसंख्येयभागमात्राणि सन्ति, त भयेषां को विशेषः ? इत्यत आह-'असंखभागो' इत्यादि, अपूर्वस्पर्धकानि पूर्वेषामपि स्पर्धकानाम् 'असंख्यभागः' असंख्ययभागप्रमाणानि भवन्ति, नाऽधिकानीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-"अपुव्वफद्दयाणि सेढीए असंखेजदिभागो। सेदिवग्गमूलस्स वि असंखेजदिभागो । पुव्वफहयाणं पि असंखेजदिभागो सव्वाणि अपुव्वफद्दयाणि ।” इति ॥२५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org