________________
योगकिट्टिनिरूपणम् ] सयोगिगुणस्थानाद्धाधिकारः
[४८१ अपूर्वस्पर्धककरणाद्धामन्तर्मुहूर्तप्रमाणां व्यतिक्रम्य सयोगिकेवली योगकिट्टीः करोतीत्येतदभिधित्सुराह
तत्तो पुव्वाऽपुव्वेहिं फड्डेहिं कुणेइ किट्टीओ। हेट्ठम्मि अपुव्वाणं सेढिअसंखेज्जभागमिआ ॥२५१॥ ___ ततः पूर्वापूर्वेभ्यः स्पर्धकेभ्यः करोति किट्टीः ।
अधस्तादपूर्वेषां श्रेण्यसंख्येयभागभिताः ।।२५१॥ इति पदसंस्कारः । 'तत्तो' इत्यादि, 'ततः' अपूर्वस्पर्धककरणाद्धासमाप्तितः परं पूर्वापूर्वेभ्यः स्पर्धकेभ्यः 'अपूर्वपाम्' अपूर्वस्पर्धकनामधस्तात् 'श्रेग्यसंख्येयभागमिताः' सूचिश्रेणेरसंख्येयभागप्रमाणाः 'किट्टीः' योगस्य किट्टीः 'करोति' निर्वर्तयति । ननु का नाम किट्टिः ? इति चेत् , उच्यतेएकोतरवृद्धिं परित्यज्या-ऽसंख्येयगुणहीनैकैकवर्गणास्थापनेन योगस्य कर्शनं कृष्टिः अल्पीकरणमित्यर्थः । तथाहि-अपूर्व स्पर्धककरणाद्वायां पूर्वस्पर्धकतो-ऽसंख्येयगुणहीनं योगं कृत्वा योगा-ऽविभागानाकोत्तरवृद्धथा वर्गणाः स्थापयित्वा सूचिश्रेणेसंख्यभागप्रमाणाभिर्वर्गगाभिरेकैकाऽपूर्वस्पर्धकं रचयति स्म । तानि च सर्वाणि निर्वय॑मानान्यपूर्वस्पर्धकानि सूचिश्रेणेरसंख्येयभागप्रमाणानि जायन्ते स्म । किट्टिकरण काले ऽपूर्व स्पर्धकप्रथमवर्गणातो-ऽप्यसंख्येयगुणहीनं योगं कृत्वा योगाऽविभागानामेकोतरवृद्धि विहायोत्कृयकिट्टितोऽसंख्येयगुणहीनक्रमेण किट्टीस्तावत् स्थापयति, यावत् प्रथमकिष्टिः, यता जघन्यकिट्टितो.ऽसंख्येयगुणक्रमेण तावत् स्थापयति, यावदुत्कृष्टकिट्टिः । उत्कृष्टकिट्टायप्यपूर्वस्पर्धकप्रथमवर्गणातोऽसंख्येयगुणहीना वीर्याऽविभागा भवन्ति । अनेन क्रमेण योगस्याऽल्पीकरणं किद्धिरिति व्यपदिश्यते ॥२५१।।
ननु किट्टिकरणाद्धाप्रथमसमये किट्टिकरणे को विधिः ? इत्यत आहओकड्ढए अपुबाइवग्गणाए असंखभागमिआ। अविभागे तह जीवपअसा वि असंखभागमिआ॥२५२॥
अपकर्पत्यपूर्वादिवर्गणाया असंख्यभागमितान ।
अधिभागांतथा जीवप्रदेशानप्यसंख्यभागमितान् ॥२५२॥ इति पदसंस्कारः । 'ओकड्ढए' इत्यादि, तत्र 'अपूर्वादिवर्गणायाः' किट्टिकरणप्रथमसमयेऽपूर्वस्पर्धकप्रथमवर्गगायाः 'असङ्ख्यभागमितान्' असंख्येयभागप्रमितान् ‘अविभागान् वीर्या-ऽविभागान् 'अपकर्षति' आकर्षति । 'तह' इत्यादि, 'तथा' तथाशब्दः समुच्चये, 'जीवप्रदेशानप्यसंख्यभागमितान्' पूर्वाऽपूर्वस्पर्धकप्रतिवद्धानां लोकाकाशप्रदेशप्रमितानामात्मप्रदेशानामप्यसंख्येयभागप्रमितान् जीवप्रदेशानाकर्पतीत्यर्थः । उक्तश्च कषायप्राभृतचूर्णी-"अपुव्वफद्दयाणमादिवग्गणाएअविभागपडिच्छेदाणमसंखेजदिभागमोकडुदि। जीवपदेसाणमसंखेजदिभागमोकडुदि।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org