________________
४८२]
खवगसेढी
[गाथा-२५३-२५४ पूर्वापूर्वस्पर्धकेभ्योऽसंख्येयभागमितान् जीवप्रदेशानादाया-ऽपूर्वस्पर्धकप्रथमवर्गणाया असंख्येयभागप्रमाणवीर्या-ऽविभागकाः किट्टीः करोति, तेन चरमकिट्टावप्यपूर्वस्पर्धकप्रथमवर्गणातो-5संख्येयगुणहीना वीर्याऽविभागा भवन्ति ।
अथ योगकिषुि जीवप्रदेशानां प्रक्षेपक्रमोऽभिधीयते-किट्टिकरणाद्धाप्रथमसमये पूर्वापूर्वस्पर्धकेभ्यो-ऽसंख्येयभागप्रमितान् जीव देशान् गृहीत्वा प्रथमकिट्ट प्रभूतान् जीवप्रदेशान् निक्षिपति । ततो विशेषहीनान द्वितीयकिट्टौ निक्षिपति, ततोऽपि तृतीयस्यां किट्टी विशेपहीनान् । एवमुत्तरोत्तरकिट्टी विशेमहीनक्रमेण तावन्निक्षिपति, यावच्चरमकिट्टिः । चरमझिट्टिान किट्टिषु सर्वप्रभूतवीर्याऽविभागका किट्टिः । प्रथमकिट्टि म किट्टिषु सर्वाऽल्पवीर्याऽविभाग का फिट्टिः । चरमकिट्टितोऽपूर्वस्पर्धकप्रथमवर्गणायामसंख्येयगुणहीनान् जीवप्रदेशान् प्रक्षिपति । ततो विशेषहीनान् द्वितीयवर्गणायां निक्षिपति । तत उपरि विशेषहीनक्रमेण प्रक्षिपति ॥२५२॥
ननूत्तरोत्तरसमये कि.मधिका अधिकतराः किट्टीः करोति, उत हीना हीनतराः? एवं जीवप्रदेशान् किं वृद्धिक्रमेणाऽपकर्षति, आहोस्विद् हीनक्रमेण, कियतीश्च सर्वाः किट्टीः करोति ? इति पृष्टे गाथाद्वयन प्रतिवक्ति
अंतोमुहुत्तकालमसंखगुणूणकमेण किट्टीओ। करए ओकड्ढइ जीवपअसे उण असंखगुणणाए ॥२५३॥ (गीतिः) किट्टीगुणगारो पल्लासंखंसो हवन्ति किट्टीओ। सेढीअसंखभागो अपुब्बफड्डाण उण असंखंसो ॥२५४॥ (गीतिः)
अन्तमुहूर्तकालमसंख्यगुणोनक्रमेण किट्टीः । करोत्यपकर्षति जीवप्रदेशान् पुनरसंख्यगुणनया ॥२५३।। किट्टिगुणकारः पल्या-ऽसंख्यांशो भवन्ति किट्टयः ।।
श्रेण्यसंख्यभागो-ऽपूर्वस्पर्धकानां पुनरसंख्यांशः ।।२५१।। इति पदसंस्कारः । 'अंतो' इत्यादि, 'अन्तमुहूर्तकालं' अन्तर्मुहूर्तं यावद् 'असङ्खथगुणानक्रमण' असंख्येयगुणहीनक्रमेण 'किट्टीः' अपूर्वकिट्टीः 'करोति' निर्वर्तयति । 'अपकर्षति' आकर्षति जीवप्रदेशान् पुनः 'असङ्ख्यगुणनया' प्रतिसमयमसंख्येयगुणकारेण । उक्तं च कषायप्राभृतचूर्णी-"एत्थ अंतोमुहत्तं किट्टीओ करेदि, असंखेजगुणहीणाए सेढोए, जोवपदेसाणमसंखेजगुणाए सेढीए।" इति । इदमत्र तात्पर्यम्-किट्टिकरणप्रथमसमये सूचिश्रेणे संख्ये भागप्रमाणाः किट्टीः करोति, ताश्च प्रभूताः, ततो द्वितीयसमये-ऽसंख्येयगुणहीनाअपूर्वाः किट्टीः करोति, ततो-ऽपि तृतीयसमये-ऽसंख्येयगुणहीनाः। एवम संख्येयगुणहीनक्रमेण तावत् करोति, यावदन्तम हतप्रमाणायाः किट्टिकरणाद्धायाश्चरमसमयः। तथा योगा-ऽविभागानाश्रित्य प्राक्तनसमयकृतजघन्यकिट्टितो-ऽप्यसंख्येय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org