________________
४३८ ].
... खबगसेढी. .... .. ... ... .. गाथा--२२९ ततः परं क्षीणकषायगुणस्थानकचरमसमये केवलज्ञानावरणकेवलदर्शनावरण-दान-लाभ-भोगोपभोग-वीर्या-ऽन्तरायाणां तथा सर्वोत्कृष्टचतुर्दशपूर्वधरं प्रतीत्य मतिज्ञानावरण-श्रतज्ञानावरण-चक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां, प्राप्तावधिज्ञानांश्च जीवानाश्रित्याऽवविद्वि कस्य तथा विपुलमतिं प्रतीत्य मनःपर्यत्रज्ञानावरणस्य जघन्यानुभागोदयो जायते, तथा गुणितकमांशस्य शीघ्र क्षपकश्रेणिमारूढस्य चतुर्दशप्रकृतीनां मतिज्ञानावरणादीनामुत्कृष्टप्रदेशोदयो जापते, नवरं प्राप्ताऽवधिलब्धिकस्य न वाच्यः, अवधिप्राप्तौ प्रभूतानां प्रदेशानां परिशटनात् । उक्तश्च कर्मप्रकृतिवृत्तौ-"नवरं ज्ञानावरणपञ्चकाऽन्तरायपञ्चक-दर्शनावरणचतुष्टय-वेदत्रय-संज्वलनलोभ-सम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वा-अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्यानुभागोदयो वाच्यः। xxx 'आवरण' ति आवरणं-पञ्चप्रकारं ज्ञानावरणं चतुष्पकारं दर्शनावरणं 'विग्ध' त्ति पञ्चप्रकारमन्तरायं एतासां चतुर्दशप्रकृतीनां लघुक्षपणया-शीघ्रक्षपणार्थ अभ्युद्यतस्य । विविधा हि क्षपणा लघुक्षपणा चिरक्षपणा च। तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नः, तत्प्रतिपत्त्यनन्तरं चाऽन्तर्मुहूर्तेन क्षपकश्रेणिमारभते । तस्य या क्षपणा, सा लघुक्षपणा । यस्तु प्रभूतेन कालेन संयमं प्रतिपद्यते, संयमप्रतिपतेरप्यूवं प्रभूतेन कालेन क्षपकश्रेणिमारभते, तस्य या क्षपणा, सा चिरक्षपणा । तया च प्रभूताः पुद्गलाः परिशटन्ति, स्तोका एव च शेषा भवन्ति । ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्त लघुक्षपणयाऽभ्युस्थितस्येति । तस्य गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणिशिरसि वर्तमानस्योत्कृष्टप्रदेशोदयो भवति । नवरं 'ओहोण णोहिलडिस्स' त्ति अवध्योरवधिज्ञानावरणाऽवधिदर्शनावरणयोरनवधिलब्धिकस्या-ऽवधिलधिरहितस्य क्षपणायोस्थितस्योकृत्टः प्रदेशोदयो वाच्यः । अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिशटन्ति-क्षोयन्ते। ततो नाऽवधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम् ।” इति ।
तदानीमेव मूलकर्माऽपेक्षया ज्ञानावरण-दर्शनावरण-ऽन्तरायाणामुत्तरकापेक्षया च पञ्चज्ञानावरण--चतुर्दर्शनावरण-पश्चाऽन्तरायाणां जघन्यस्थित्युदयो भवति, कमप्रकृतिवृत्तौ श्रीमन्मलयगिरिपादैः "* षट्त्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमाौकस्थित्युदय
★ पटत्रिंशत्प्रकृतयो नामतः पुनरिमाः-ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कं सातवेदनीयमसातवेदनीयं संज्वलनलोभो वेदत्रिकं सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं चत्वार्यायुष्माणि मनुष्याति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त-सुभगा-ऽऽदेय-यशःकीर्तयो जिननामोच्चैर्गोत्रमन्तरायपश्चकं चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org