________________
क्षीण कपायाद्धाया द्विचरमसमयः ] अपगत को याद्धाधिकारः निद्राद्रिकत्वलक्षणस्वकीयरूपावस्थानमाश्रित्य समयोना क्षीणमोहाडासमा स्थितिः । अथ च संक्रमान्त्यसमये प्रकृतिचतुर्दशकरूपतया (प्रकृतिचतुषकरूपतया) स्थित्वा तेन साकंक्षेष्यतोति, परप्रकृतिरूपकर्मत्वमात्रापेक्षया तुल्येति, तदुक्त कर्मप्रकृतिटोकायाम्-'अनुदयवतं हि चरमसमये स्तिवुक्रसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति, तत्स्वरूपेण वा-ऽनुभवति, तेन चरमसमये तासां दलिकं स्वरूपेण न प्राप्यते, किन्तु पररूपेण' इत्यादि । एवमग्रे प्यनुदयवत्कर्मणां समयोनता भावनीया । सा च क्षीणाहाऽद्यापन्तमुहर्तनाना, नतः प्रभृति च तासां स्थितिघातादयः स्थिताः, शेषाणां तु भवत्येव । ताश्च प्रकृतोनिद्राद्रिकवर्जमुदयोदोरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः, तत्रोदीररणा निवृत्ता, तत आवलिकां यावदुदयेनैव केवलेन वेदयते, यावत् क्षीणमोडाया विचरमसमयः । तत्र च निद्रादिकं स्तिवुकसंक्रमणोदयवतीषु प्रकृतिषु संक्रान्तत्वात् स्वरूपसत्तापेक्षया क्षीणम् । अत एव 'उदये पुण खवगाणं चत्तारि उ दंसणावरणे' इति सूत्रेण क्षपक श्रेण्यां निद्राद्विकोदयः प्राग्न्यषेधि-यत उदयवतोनां प्रकृतीनां प्राक्संक्रमाभावात्स्वरूपेण प्रान्त्यसमयं यावद्दलिकं दृश्यते, एतयोश्च दलिकं विचरमसमय एव क्षीणं, अतो ज्ञायते-निद्रादिकस्य क्षपकश्रेणावुदयो नास्तीति । तदुक्तं चूौँ—“दुचरिमसमए एवं निदादुगं खोणं उदयाभावाउ' अत्र 'उदयाभावाउ' इति यस्मादेतयोः क्षपकश्रेणावुदयाभावोऽत एते स्तिवुकसंक्रान्त्या द्विचरमसमय एव क्षोणे इत्यर्थः ।" इति
केषाश्चिदाचार्याणामभिप्रायेण क्षीणकषायगुणस्थानकद्विचरमसमये निद्रादिकेन सह देवगति-देवानुपूर्वी-वैक्रियशरीरा-ऽऽहारकशरीर-वनभनाराचवर्जसंहननपञ्चका-ऽनुदितसंस्थानपञ्चकरूपचतुर्दशप्रकृतयो-ऽपि सवतो व्यवच्छिद्यन्ते, अतीर्थकरप्रतिपत्तस्तु जिननामकर्मणोऽपि सत्त्वतो व्यवच्छेद इति । यदुक्तमावश्यकचूर्णी-"अन्ने भणंति-जत्थ निदं पयलं च खवेति, तत्व नामस्स इमाओ पयडोओखवेति, तंजहा-देवगति देवाणुपुव्वो विउव्वियदुगं पढमवजाइं पंच संघयणाई पंच संठाणाइं तित्थगरनामं जदि अतित्थगरो।" इति । अन्यत्रा-ऽपि प्रतिपादितम्
"वोसमिऊण नियंठो दोहि उ समए हिं केवले सेसे । पढमं निदं पयलं नामस्स इमाउ पयडीओ ॥१॥ देवगइ-आणुपुव्वी-उव्विय-संघयणपढमवजाइं ।
अन्नयरं संठाणं तित्थयराहारनामं च ॥२॥" एवं बृहत्कल्पवृत्तावप्यभिहितम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org