________________
४३६ ]
खगसेढी
[ गाथा-२२९ यस्स बहुया ओहिदुगावरणपोप्ता खिज्जति तिणेच्छिजइ लड़ी। एवं संखेवेण भणियं, तहावि असंमोहणिमित्तं विसेसयरं भणामि-ओहिणाणावरणवजाणं चउण्हं णाणावरणाणं चक्खु-अचक्खु-केवलदसणावरणीयाणं एतेसिं सत्तण्हं उक्कसिया पदेसउदोरणा समयाहियावलियसेसे छउमत्थस्स, तस्सेव ओहिदुगस्स ओहिरहियस्स उक्कोसिया पदेसुदोरणा ।” इति
तदानीं व्यवच्छिद्यमाना घातित्रयस्योदीरणा व्यवच्छिन्ना ।।२२८॥
ततः परं केवलमुदयेन घातिकर्मत्रयं वेदयन् क्षीणकपायगुणस्थानस्य द्विचरमसमयं प्राप्नोति, - तदा निद्राद्विकक्षयं ततश्च चरमसमये चतुर्दशप्रकृतीनां क्षयं प्रदिदर्शयिषुराह--
वोच्छिन्ना सन्तुदया निद्ददुगस्स तु दुचरिमसमये-ऽन्ते। णाणंतरायचउदंसणाण फिट्टन्ति सन्तुदया ॥२२९॥ व्यवच्छिन्नी सत्तोदयौ निद्राद्विकस्य तु द्विचरमसमयेऽन्ते ।। ज्ञानावरणाऽन्तरायचतुर्दर्शनावरणानां भ्रश्यतः सत्तोदयौ ।। २२९ ।। इति पदसंस्कारः ।
'वोच्छिन्ना' इत्यादि, तत्र 'दुचरिमसमये' त्ति 'विचरमसमये द्वितीयश्चामो यस्मात् =यत आरभ्य चरमसमयो द्वितीयो भवति, स विचरमः पृषोदरादित्वात् तीयलोपः, यदि वा द्वी चरमौ यस्माद्यत आरभ्य द्वौ समयो चरमौ भवतः, स द्विचरमः, ततः समयशब्देन सह कर्म धारयसमासाद् द्विचरमसमयः, उभयथाऽपि सामयिक्या परिभाषया चरमसमयाइनन्तरं पाश्चात्यः समयः, तस्मिन् , क्षीणकषायगुणस्थानस्य चरमसमयादनन्तरप्राक्तनसमय इत्यर्थः, 'निद्रादिकस्य' निद्राप्रचलाख्यस्य 'सन्तुदया' ति गाथायां सदिति निर्देशस्य भावप्रधानत्वेन सदित्यनेन सत्ताया व्याख्येयत्वात् सत्तोदयौ व्यवच्छिन्नौ भवतः, ततः परं निद्राद्विकं सत्कर्मणि न दृश्यत इत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-"तदो दुचरिमसमये निद्दापयलाणुदयसंतवोच्छेदो।" इति । एवं कर्मस्तवादावपि। तुशब्दो विशेषार्थकः, स चा-ऽन्येषामाचार्याणां मतेन निद्राद्विकस्य सत्वमेव व्यवच्छिद्यते, उदयस्तु पूर्वमपि क्षीणकरायगुणस्थानकेन भवतीति विशिनष्टि, यदुक्त श्रीमन्मेरुतुङ्गाचार्यपादैः सप्ततिकाभाष्यवृत्ती-“तस्य च मोहवर्जशेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते, यावत् क्षोणमोहाडायाः संख्येया भागा गच्छन्त्येको-ऽवतिष्ठते । तस्मिश्च भागे ज्ञानावरणाऽन्तरायपञ्चक-दर्शनावरणचतुष्क-निद्राद्विकरूपाणां षोडशप्रकृतीनां स्थितिं सर्वाऽपवर्तनयाऽपवर्त्य क्षोणमोहाडासमां विधत्ते, केवलं निद्राद्विकस्य स्वरूपं प्रतोत्यैकसमयोनां कर्मत्वमात्रा-ऽपेक्षया तु तुल्यां, कोऽर्थः ? क्षीणमोहस्य द्विचरमसमये निद्राद्विकस्य दलिक स्तिवुकाः दर्शनावरणप्रकृतिचतुष्के सङ्क्रमयिष्यन्ति, संक्रमच दलिकं किञ्चित् स्वरूपं जहातीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org