Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 610
________________ योगगुणस्थानाद्धाधिकारः जस्साउएणतुल्लातिं बन्धणेहिं ठितीहि य । भवोवग्गहकम्माई समुग्धायं से ण गच्छइ ॥ १ ॥ तूर्णं समुग्धातं अनंता केवलो जिणा । जरमरणविप्पमुक्का सिद्धिं वरगई गया ||२||" इति । अत्र बध्यन्त इति बन्धनानि "भुजिपत्यादिभ्यः कर्मापादाने " (मिद्धहेम ०५-३-१२८) इत्यनेन कर्मणि अनप्रत्ययः, कर्मपुद्गला इत्यर्थः, तैः, शेषं सुगमम् । उक्तश्च वाचकमुख्यैरपि-" यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं गतवानथ गच्छति तत्समोकतु म् ॥ १ ॥” इति । तत्राप्यावश्यकचूर्णिकाराभिप्रायेण येषां महात्मनामन्तर्मुहूर्तात्प्रभृति पण्मास आयुषि शेषे केवलज्ञानमुत्पन्नम्, ते नियमात् समुद्घातमारभन्ते, शेषास्तु विभाषया केचिदारभन्ते, केचिद् नेत्यर्थः यद्वा शेषा ना -ऽऽरभन्त इत्यर्थः । उक्तं चाऽऽवश्यकचूर्णो - "ये ऽन्तर्मुहर्तमादिकृत्वोत्कर्षेण आ मासेभ्यः षड्भ्य आयुषो ऽवशिष्टेभ्यः अभ्यन्तरे आविभूत केवलपर्यायाः, ते नियमात्समुद्घातं कुर्वन्ति, ये तु षण्मासेभ्यः उपरिष्टादाविर्भूतकेवलज्ञानाः शेषास्ते समुद्घातकाद्[समुद्घातकरणाद्] बाह्याः, ते समुद्घातं न कुवन्तोत्यर्थः, अथवा-ऽयमर्थः - शेषाः समुद्घातं प्रति भाज्याः, कस्मात् ? यस्मात् षाण्मासिकाऽवशिष्टे आयुषि आविर्भूतिकेवलज्ञानपर्यायेभ्यः केवलिभ्यः सकाशात् षड्भ्यो मासेभ्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि शेषे आविर्भूतकेवलिनः, ते शेषाः समुद्घातं प्रति भाज्याः । केचित्समुद्घातं कुर्वन्ति केचिन्नेति ।" तथैव गुणस्थानकक्रमारोहवृत्तावपि - समुद्घात करणे मतान्तराणि ] "तथैवाऽन्यत्रापि - 'छम्मासाउसेसे, उत्पन्नं जेसिं केवलं नाणं । ते नियमा समुद्घाया सेसा समुग्धाय भइयव्वा ॥ १ ॥ उक्त च मूलाराधनाकारं रवि - "जेसि श्राउसमाई' गामगोदाइ वेदरणीयं च । ते 'अकदसमुग्धादा जिरगा उवरणमंति सेलेसि ॥ १ ॥ जेसि हवंति विसमारिण सामगोदाउवेदरणीयाणि । ते तु कदसमुग्धादा जिरगा उवरणमति सेलेसि ॥२॥ ठिदिसंतकम्मसमकररणत्थं सव्वेसि तेसि कम्मारणं । तोमुत्तसेसे जंति समुग्धादाउम्मि ॥३॥” इति । * उक्तं च मूलाराधनाकारैरपि - " उक्कस्सएर छम्मासाउगसेसम्मि केवली जादा । वच्चति समुग्धादं सेसा भज्जा समुग्धादे ॥१॥" इति । धवलाकारास्तु "यतिवृषभोपदेशात्सर्वघातिकर्मणां क्षीरणकषायचरमसमये स्थितेः साम्याभावात् सर्वेऽपि कृतसमुद्घाताः सन्तो निवृत्तिमुपढोकन्ते । येषामाचार्यारगां लोकव्यापिकेवलिषु विंशतिसंख्यानियमस्तेषां मतेन केचित् समुद्घातयन्ति केचिन्न समुद्घातयन्ति ।" इत्याहुः । Jain Education International [ ४५३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786