________________
योगगुणस्थानाद्धाधिकारः
जस्साउएणतुल्लातिं बन्धणेहिं ठितीहि य । भवोवग्गहकम्माई समुग्धायं से ण गच्छइ ॥ १ ॥ तूर्णं समुग्धातं अनंता केवलो जिणा । जरमरणविप्पमुक्का सिद्धिं वरगई गया ||२||" इति ।
अत्र बध्यन्त इति बन्धनानि "भुजिपत्यादिभ्यः कर्मापादाने " (मिद्धहेम ०५-३-१२८) इत्यनेन कर्मणि अनप्रत्ययः, कर्मपुद्गला इत्यर्थः, तैः, शेषं सुगमम् । उक्तश्च वाचकमुख्यैरपि-" यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं गतवानथ गच्छति तत्समोकतु म् ॥ १ ॥” इति । तत्राप्यावश्यकचूर्णिकाराभिप्रायेण येषां महात्मनामन्तर्मुहूर्तात्प्रभृति पण्मास आयुषि शेषे केवलज्ञानमुत्पन्नम्, ते नियमात् समुद्घातमारभन्ते, शेषास्तु विभाषया केचिदारभन्ते, केचिद् नेत्यर्थः यद्वा शेषा ना -ऽऽरभन्त इत्यर्थः । उक्तं चाऽऽवश्यकचूर्णो - "ये ऽन्तर्मुहर्तमादिकृत्वोत्कर्षेण आ मासेभ्यः षड्भ्य आयुषो ऽवशिष्टेभ्यः अभ्यन्तरे आविभूत केवलपर्यायाः, ते नियमात्समुद्घातं कुर्वन्ति, ये तु षण्मासेभ्यः उपरिष्टादाविर्भूतकेवलज्ञानाः शेषास्ते समुद्घातकाद्[समुद्घातकरणाद्] बाह्याः, ते समुद्घातं न कुवन्तोत्यर्थः, अथवा-ऽयमर्थः - शेषाः समुद्घातं प्रति भाज्याः, कस्मात् ? यस्मात् षाण्मासिकाऽवशिष्टे आयुषि आविर्भूतिकेवलज्ञानपर्यायेभ्यः केवलिभ्यः सकाशात् षड्भ्यो मासेभ्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुषि शेषे आविर्भूतकेवलिनः, ते शेषाः समुद्घातं प्रति भाज्याः । केचित्समुद्घातं कुर्वन्ति केचिन्नेति ।" तथैव गुणस्थानकक्रमारोहवृत्तावपि -
समुद्घात करणे मतान्तराणि ]
"तथैवाऽन्यत्रापि - 'छम्मासाउसेसे, उत्पन्नं जेसिं केवलं नाणं । ते नियमा समुद्घाया सेसा समुग्धाय भइयव्वा ॥ १ ॥
उक्त च मूलाराधनाकारं रवि - "जेसि श्राउसमाई' गामगोदाइ वेदरणीयं च । ते 'अकदसमुग्धादा जिरगा उवरणमंति सेलेसि ॥ १ ॥ जेसि हवंति विसमारिण सामगोदाउवेदरणीयाणि । ते तु कदसमुग्धादा जिरगा उवरणमति सेलेसि ॥२॥ ठिदिसंतकम्मसमकररणत्थं सव्वेसि तेसि कम्मारणं । तोमुत्तसेसे जंति समुग्धादाउम्मि ॥३॥” इति ।
* उक्तं च मूलाराधनाकारैरपि - " उक्कस्सएर छम्मासाउगसेसम्मि केवली जादा । वच्चति समुग्धादं सेसा भज्जा समुग्धादे ॥१॥" इति ।
धवलाकारास्तु "यतिवृषभोपदेशात्सर्वघातिकर्मणां क्षीरणकषायचरमसमये स्थितेः साम्याभावात् सर्वेऽपि कृतसमुद्घाताः सन्तो निवृत्तिमुपढोकन्ते । येषामाचार्यारगां लोकव्यापिकेवलिषु विंशतिसंख्यानियमस्तेषां मतेन केचित् समुद्घातयन्ति केचिन्न समुद्घातयन्ति ।" इत्याहुः ।
Jain Education International
[ ४५३
For Private & Personal Use Only
www.jainelibrary.org