SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ४५४ ] खवगसेढी [ गाथा-२३२-२३३ गुणस्थानकक्रमारोहग्रन्थे तु___ "यः षण्मासाधिकायुष्को लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा नवा ॥१॥” इत्युक्तम् । तत्त्वमत्र केवलिनो बहुश्रुता वा विदन्ति । केचिदाहः-जघन्यतो-ऽन्तमुहूर्तमात्र आयुषि शेष उत्कृष्टतः पुनः षण्मासप्रमाण आयुषि शेषे समुद्घातं करोतीति, तन्न समीचीनम्, यतोऽन्तमुहूर्तमात्र आयुषि शेष आयोजिकाकरणं कृत्वा समुद्घातमारभते, तेन समुद्घातप्रारम्भे तस्यायुः षण्मासमात्रं न संभवति । किञ्च भगवताऽऽर्यश्यामेन प्रज्ञापनायामायोजिकाकरणानन्तरं प्रातिहारिकपीठफलकादीनां प्रत्यपर्णमेवोक्तम् , न तु ग्रहणम् , तेना-ऽन्तमुहूर्तमात्रशेषायुष्कः समुद्घातमारभते, न तु पाण्मासिकायुकः । यदि षट्सु मासेसु शेषेसु समुद्घातमारभेत, तर्हि षट्सु मासेसु कदाचिदपान्तराले वर्षाकालसम्भवात् तनिमित्त पीठफलकादीनामादानमप्युपपद्यत, न च तत्सूत्रसम्मतमिति कृत्वोत्कृष्टतः पग्मासेषु शेषेसु समुद्घातं करोतीति मतं निरस्तम् । उक्त च भाष्यकारैः कम्मलहुआए समओ भिन्नमुहुत्तावसेसओ कालो। अन्ने जहन्नमेयं छम्मासुक्कोसमिच्छंति ॥१॥ ततोऽनंतरसेलेसीवयणओ जं च पाडिहारोणं । पच्चप्पणमेव सुए इहरा गहणं पि होजाहि ॥२॥” इति । इह कर्मलघुतानिमित्तं समुद्घातस्य समयः अवसरो भिन्नमुहूर्तावशेष कालः, शेष सुगमम् ॥ ननु प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं समुद्घातारम्भ इति भवता यत् प्रोक्तम् , तदयुक्तम् , कृतनाशादिदोषप्रसङ्गात् । तद्यथा-प्रभूतकालोपभोग्यस्य वेदनीयादेः स्तोकेन कालेना-ऽपगमसम्पादनात् कृतनाशः, तथोपगमे च वेदनीयादिवच्च कृतस्या-ऽपि कर्मक्षयस्य पुनर्विनाशसम्भवेन मोक्षे-ऽपि कर्मोत्पत्त्या ततः पुनश्च्युतिः प्रसज्येतेति चेत्, न, कृतनाशादिदोषा-ऽप्रसङ्गात्, तथाहि-यथा प्रतिदिवसं सेतिकापरिभोग्येन वर्षशतपरिभोग्यस्य कल्पिताहारस्य भस्मकव्याधिना तत्सामर्थ्यतः स्तोकदिवसैनिशेषतः परिभोगान कृतनाशोपगमः, तथा कर्मणोऽपि वेदनीयादेस्तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो-ऽनुभवान्न कृतनाशलक्षणदोषः प्रसज्यते । द्विविधो हि कर्मणो-ऽनुभवः, प्रदेशतो विपाकतश्च । तत्र प्रदेशतः सकलमपि कर्मा-ऽनुभूयते, न तदस्ति किञ्चित्कर्म, यत्प्रदेशतो-ऽप्यननुभूतं सत् क्षयमुपयाति, ततः कथं कृतनाशदोषापत्तिः ? अत्र क्षयो नाम बन्धपरिणामेन जीवप्रदेशैः सह परिणतानां कर्मपुद्गलानां बन्धप्रतिपक्षमोक्षपरिणामैः प्रक्षिप्यमाणानां तेषां जीवप्रदेशतो निमूलतो-ऽपगमनम्, सर्वथा नाशस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy