________________
[४५५
कृत नाशादिदो प्रतिविधानम् ] सयोगिगुणस्थानाद्वाधिकारः ना-ऽभ्युपगम्यते स्याद्वादवादिभिः, जीवप्रदेशतः पृथग्भूतानामकर्मस्वरूपेण परिणतानामपि कर्मपुद्गलानां पुगलस्वरूपेण परिक्षया-ऽनुपलम्भात् “ना-ऽसतो विद्यते भावो, ना-भावो विद्यते सतः” इतिन्यायात् । तेन यथा मणेर्मलादेावृत्तिः क्षय इति व्यपदिश्यते, तथैवाऽऽत्मप्रदेशतः कर्मणामपगमनं क्षय इति परिभाष्यते। स च क्षयः प्रदेशतो विपाकतश्च भवति । विपाकतः कर्मणोऽनुभवस्तु भजनीयः, किश्चित्कर्म विपाकतो-ऽनुभृतं सत् क्षयमुपगच्छति, किश्चित्पुनः विपाकतो-ऽननुभूतमेव, अन्यथा मोक्षा-ऽभावः प्रसज्येत । तथाहि-यदि विपाकानुभवत एव सर्वकर्मदलं परिक्षपणीयमिति नियमः स्यात्, तयसंख्यातेषु भवेषु तथाविधविचित्रा-ऽध्यवसायविशेपर्यन्नरकगत्यादिकं कर्मोपार्जितम् , तस्य नकस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिबन्धनत्वात् तथाविधविपाकानुभवस्य । क्रमेण च स्वस्वभवा-ऽनुगमेना-ऽनुभवे नारकादिभवेषु चारित्राऽभावेन प्रभूततरकर्मसन्तानसञ्चयात्, तस्या-ऽपि च स्वस्वभवा-ऽनुगमेना-ऽनुभवोपगमात् कुतो मोक्षः ? तस्मात् सर्व कर्म त्रिपाकतो भजनयाऽनुभूयते, प्रदेशतः पुनरवश्यमेवा-ऽनुभवनीयमित्यभ्युपगन्तव्यम् , यदुक्त श्रीविवाहप्रज्ञप्तौ-"तत्थ णं जं तं पएसकम्म, तं णियमा वेयइ, तत्थ णं जं अणुभागकम्म, तं अत्थेगइअं वेएइ, अत्थेगइअंणो वेएइ।” इति । एवं च न कश्चिद् दोषः । न च तथापि दीर्घकालभोग्यतया यद् वेदनीयादिकं कर्मोपार्जितम् , अथ च परिणामविशेषादुपक्रमेणा-ऽवागेर तदनुभवति, ततः कथं न कृतनाशदोषप्रसङ्गः ? इति वाच्यम् , बन्धकाले तथाविधा-ऽध्यवसायवशत आदावुपक्रमयोग्यस्यैव बन्धात् , उक्तं च भाष्यकृद्भिः
"उदयखयक्खयोवसमोवसमा जं च कम्मुणो भणिया ।
दव्वादिपंचगं पति जुत्तमुवकमणमत्तो-ऽवि ॥१॥” इति । किञ्च जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः । न चैवं कर्मक्षयस्योपक्रमहेतुर्येन मोक्षतः पुनश्च्युतिप्रसङ्गः, मोक्षाद्धि प्रच्यावयितु रागादयः समर्थाः, ते च निमूलका कपिता इति भवता यतुक्तं 'तथोपगमे वेदनीयादिवच्च कृतस्याऽपि कर्मक्षयस्य' इत्यादि, न तत्सम्यगुपपन्नमिति स्थितम् ।।
ननु यदा वेदनीयादिकमतिप्रभृतं सर्वस्तोकं चा-ऽऽयुष्कम् ,तदा समधिकवेदनीयादिघातार्थं समुद्वातमारभताम् , वेदनीपादिकस्य सोपक्रमत्वात् । यदा त्वधिकमायुष्कं स्तोकञ्च वेदनीयादिकम् , तदा का वार्ता ?, न खल्वायुष्क त्य घालाय समुद्घातः कल्पते, चरमशरीरिणामायुषो निरुपक्रमत्वात्, "चरमसरोरा य निरुवकम्मा ।” इति वचनात् , तदयुक्तम् , एवंविधभावस्य कदाचनाऽप्यभावात् । तथाहि—सर्वदैत्र वेदनीयायेवायुषः सकाशादधिकस्थितिकं भवति, न तु कदाचिदपि वेदनीयादित आयुष्कम् । न च कुतो-ऽयं नियमः, येन वेदनीयादित आयुष्कमधिकस्थितिकं न भवति ? इति वाच्यम् , तथारूपजीवपरिणामस्वाभाव्यात् । इदमुक्तं भवति-यथा-ऽऽयुर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org