________________
४५६ ]
खवगसेढी
[ गाथा-२३२-२३३ र्जानां ज्ञानावरणादिकर्मणां सप्तानां ध्रुवबन्धः, आयुषस्त्वध्रुवबन्धः, सोऽपि नियत एव काले स्त्रभवत्रिभागादिशेषरूपे, उक्तं च "सिय तिभागे सिय तिभागतिभागे।” इति । तत्र बन्धवैचित्र्यनियमे न स्वभावात् परः कश्चिद् हेतुरस्ति, तथैवेहाऽप्यायुपो वेदनीयादितो-5धिकस्थितिकत्वा-ऽभावे स्वभावविशेष एव नियामकः प्रतिपत्तव्यः । इत्थंभूत एवात्मनः परिणामः, येन जीवस्या-ऽऽयुष्कं वेदनीयादिनिस्तुल्यं न्यूनं वा भवति, न कदाचना-ऽप्यधिकम् ।
ननु कृतकृत्योऽपि सयोगिकेवली भगवान् समुद्घातं करोतीति न युज्यते, कृतकृत्यत्वव्याघातप्रसङ्गादिति चेत् , न, समुद्घातेनैवा-ऽऽयुष्कतोऽधिकस्थितिकानां वेदनीयादीनां कर्मणां क्षपणीयत्वेनैकान्ततः कृतकृत्यत्वा-सिद्धेः । न चैतदनिष्टम् , धर्मदेशनादिनैवोदीर्णतीर्थकृनामकर्मणः क्षपणीयत्वेना-ऽप्येकान्ततो भगवतः कृतकृत्यत्वा-ऽसिद्धेरिष्टत्वात् , यदुक्तं विशेषावश्यकभाष्ये
नेगंतेण कयत्थो जेणोदिन्न जिणिंदनाम से। तदवंज्झफलं तस्स य, खवणोवओयमेव जओ॥१॥” इति । रागद्वषराहित्यलक्षणं तु कृतकृत्यत्वं तत्र भगवति निराबाधमेव ।
ननु वेदनीयादीनां प्रभृतस्थितिकानामायुषा सह समीकरणार्थं समुद्घातारम्भः, तत्र भवतु नाम समुद्घातेन नाम-गोत्रयोः कर्मक्षपणा, तदुदीरणायाः प्रवृत्तत्वात् , वेदनीयस्य तूदीरणा-ऽभावात् कथं युज्येत तत्क्षपणा ? इति चेत्, मैवम् , यतो न केवलमुदीरणयैव कर्मक्षपणा भवति, अपि त्वपवर्तनादिभिरपि । वक्ष्यन्ते च समुद्घातावस्थायां स्थितिघातादयः, न हि वेदनीयस्य स्थितिघातादयो व्यवच्छिन्नाः, तेन भवन्त्येव समुद्घातावस्थायां वेदनीयस्य स्थितिघातादयोऽपवर्तनादिभिः, ततश्च न किञ्चिदनुपपन्नम् । न च यद्यपवर्तनादिमिर्जायमानस्थितिघातादीनाश्रित्य समुद्घातो भण्यते, तीपूर्वकरणादिवपि : समुद्घातव्यवहारः स्यादिति वाच्यम् , विशिष्ट प्रयत्नेन शरीराद् बहिर्जीवप्रदेशानां यनिस्सारणम् , तत्प्रयोज्यस्य प्रावल्येन घातस्य समुद्घातत्वविवक्षणात् । यत्त प्रज्ञापनावृत्ती समुद्घातशब्दप्रतिपादना-ऽवसरे "प्राबल्यन कथं घात इति चेत्, उच्यते-इह वेदनादिसमुद्घातपरिणतो. बहून् वेदनोयादिकर्मप्रदेशान कालान्तरानुभवयोग्यानुदोरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्या-ऽनुभूय च निर्जरयतीत्युक्तम् , तदपि तत्र वेदनादिसमुद्धातेषु यस्य यस्य कर्मणो घात उदीरणायाः प्रयोजकत्वं सम्भवति, तत्तत्कर्मघाते तद् योज्यम् । विशिष्टप्रयत्नेन शरीराद् बहिनिस्सारणस्य कर्मघातप्रयोजकत्वं तु वेदनादिसर्वसमुद्घातेष्वपि समस्ति, न तत्र कस्यचित् विप्रतिपत्तिः ॥२३२-२३३
ननु यः केवली भगवान् समुद्घातं करोति, स कथं करोति ? इति पृष्टै भणति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org