________________
केवलिसमुद्घातनिरूपणम् ] सयोगिगुणस्थानाद्धाधिकारः
[४५७ दंड-कवाड-पयर-लोगपूरणाणि कमसो चउखणेसु पढमसमये पएसा वित्थारइ बहुअसंखभागमिआ ॥२३४॥ (गीतिः)
दण्ड-कपाट-प्रतर-लोकपूरणानि क्रमशश्चतुःक्षणेषु ।।
प्रथमसमये प्रदेशान् विस्तारयति बह्वसंख्यभागमितान् ।।२३४।। इति पदसंस्कारः । 'दंड०' इत्यादि, पूर्वगाथातः' कुणए' इति क्रियापदमनुवर्तते । दण्ड-कपाट-प्रतर-लोकपूरणानि 'क्रमशः' क्रमेण 'चतुःक्षणेषु चतुषु समयेषु करोति समुद्घातगतो जीवः । तद्यथा-प्रथमसमये दण्डं करोति, द्वितीयसमये कपाटम् , तृतीयसमये प्रतरम् , चतुर्थे च समये लोकपूरणं करोति । इदमत्र हृदयम्-प्रथमसमय औदारिककाययोगस्थो बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डं करोति, अथ दण्ड इति को-ऽर्थः १ दण्ड इव दण्डः । क उपमार्थः ? यथा मूल-मध्या-ऽग्रयूयोधःसमप्रदेशः परिवृत्तपयोयो दण्डो भवति, तथैव समुद्घातकरणवशाध्येमधश्च लोकान्तं प्राप्तानां बाहल्यतः स्वशरीरावगाहनागतानामात्मप्रदेशानां दण्डाकारेणाऽवस्थानाद् दण्डत्वसिद्धिः । द्वितीयसमय औदारिकमिश्रकाययोगस्थः पूर्वपश्चिमदिशोर्दक्षिणोत्तरदिशयोर्वाऽऽत्मप्रदेशानां तिर्यप्रसारणेन लोकान्तगामिनं कपाटं करोति । अथ कपाट इति कोऽर्थः ? कपाट इव कपाटः । अयमुपमार्थः-यथा पूर्वपश्चिमदिशोस्तिर्यग् विस्तीर्णो दक्षिणोत्तरदिशोह्रस्व ऊर्ध्वा-ऽधोदिशयोरुच्छ्रितः, यद्वा-ऽपागुददिशोस्तिर्यविस्तीर्णः प्राग्नत्यग्दिशोह्रस्व ऊर्धा-ऽधोदिशयोरुच्छितः कपाटः शब्धते, तथैव समुद्घातकरणवशात् पूर्वपश्चिमदिशयोदक्षिणोतरदिशोर्वा बाहल्यतः स्वशरीरावगाहनाप्राप्तानामायामतश्चतुर्दशरज्जुषु विस्तृतानां विष्कम्भतश्च लोकान्तं यावद् निर्गतानामात्मप्रदेशानां कपाटाऽऽकारेण दर्शनात् कपाटत्वसिद्धिः । तृतीयसमये कार्मणकाययोगस्थः पूर्वपश्चिमयोदक्षिणोत्तायोदिशोर्वा-ऽऽत्मप्रदेशानां प्रसारणेन लोकान्तप्रापि प्रतरं करोति । अथ च प्रतरमिति को-ऽर्थः ? प्रतरमिव प्रतरम् । अयमुपमार्थः-यथा घननिचितनिरन्तरप्रचिताऽवयवसंस्थितं परिवृत्तं स्थालक स्फलकं वा लोके प्रतरं भण्यते, तथा समुद्घातकरणवशाद् निर्गतानामात्मप्रदेशानां प्रतरसंस्थानेनाऽवस्थानात् प्रतरत्वं सिध्यति । यदभिहितमावश्यकचूर्णी-“अथ तृतीयसमयेप्रतरं कुर्वन्ति, तत्सामायिकश्च कार्मणकाययोगो भवति । अथ प्रतरमिति कोऽर्थः ? प्रतरमिव प्रतरम् । क उपमानार्थः ? यथा-घननिचितावयवसंस्थितं परिवृत्तं स्थालकं स्फलकं वा लोके प्रतरमित्युच्यते, तथाऽऽकारमपरमपि तथा आकाशमपि] परस्परप्रदेशसंसर्ग()विच्छेदपरिवृत्तपर्यायेणा-ऽवस्थितं प्रतरमिति प्रसिद्धम् ।” इति । इदमेव प्रतरं कैश्चिदाचार्य रुचकशब्देन व्यवह्रियते, यदाहुः श्रोतत्त्वार्थवृत्तिकाराः श्रोसिडसेनगणिपादाः-“दण्ड-कपाटक-रुचकक्रिया-जगत्पूरणं चतुःसमयम् ।" इति । अन्यैश्च मन्थानशब्देन व्यपदिश्यते, यदाहुः श्रोहरिभद्रसूरिपादाः-"तृतीयसमये तदेव कपाटं दक्षिणोत्तरदिग्यप्रसारणान्मन्थसदृशं मन्यानं करोति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org