________________
खवगसेढी
.
४५८ ]
[ गाथा--२३५ चतुर्थसमये कार्मणकाययोगस्थो लोकपूरणं करोति, प्रतरावस्थायामपूरितान्यवकाशान्तराणि पूरयित्वा केवली सर्वविश्वव्यापी भवति । इह जीवसमासवृत्तौ श्रीमलधारिहेमचन्द्रसूरिपादैराक्षेप-परिहाराभ्यां तृतीयसमये-ऽन्तराणामुद्धरणमित्थं दर्शितम्-"ननु लोकमध्ये स्थितो यदा केवलो समुद्घातं करोति, तदा तृतीये-ऽपि समये लोकः पूर्यते एव, किं चतुर्थसमयेऽन्तरपूरणेनेति, नैतदेवं, लोकस्य मध्यं हि मरुमध्य एव सम्भवति, तत्र च प्रायः समुदघातकर्तुः केवलिनोऽसम्भव एव, अन्यत्र च समुद्घातं कुर्वतस्तस्य तृतीयसमयेऽन्तराण्युडरन्त्येवेति परिभावनोयम् ।” इति ।
अथ समुद्घातकरणे दण्डादीनि कुर्वतो महात्मनो विधिविशेष प्रदर्शयितुकाम आदौ तावत् प्रथमसमये प्रवर्तमान विधि भणति-'पढमसमये' इत्यादि, 'प्रथमसमये' समुद्घातकरणाऽद्धायाः प्रथमसमये 'बह्वसंख्यभागमितान् प्रदेशान्' असंख्येयभागप्रमाणान् जीवप्रदेशान् स्वशरीरे परित्यज्य शेषान् बह्वसंख्येयभागमितान् जीवप्रदेशान् बाहल्यतः स्वशरीरमान ऊर्ध्वमवश्व लोकान्तगामिनि चतुर्दशरज्ज्वायामे दण्डाकारे 'विस्तारयति' प्रसारयति । यदुक्त.मावश्यकचूर्णी"अथदंडककरणेको विधिरिति प्रश्न महे-इह व्यावहारिकनयवशात् ये असंख्यया जीवप्रदेशाः, ते सर्वेऽपि बुध्या असंख्येया भागाः कृताः, तत्र प्रथमसमये दण्डककाराणामसंख्यया भागा निर्गच्छन्ति, असंख्ययभागोऽवतिष्ठते, ततस्तैरेव असंख्ययैर्जीवप्रदेशभागैः स्वशरोरान्निर्गतहि दंडकमभिनिवर्तयंतः अष्टौ जीवमध्यप्रदेशान् सांततिकपरस्परावियोगिनोरुचकसंस्थितान् चक्रिवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचकसंस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वन्तीति ।" न च कुतो जीवप्रदेशदण्डस्य स्वशरीरविष्कम्भवाहल्योपेतत्वमेव, न तु तन्न्यूनाऽतिरिक्तविष्कम्भवाहल्ययुक्तत्वमिति वाच्यम् , जीवस्या-ऽनुश्रेणिगमनस्वभावत्वात् । इहा-ऽनुश्रेणिगमनं नाम यास्वाकाशश्रेणिषु जीवोऽवगाढः, ता अपरित्यज्याऽऽत्मनो गमनम् ।
बह्वसंख्येयभागमात्रजीवप्रदेशान् विस्तारयन्नपि दण्डावस्थायां लोका-ऽसंख्येयभागमात्र क्षेत्रं व्याप्नोति, न त्वधिकम् ॥२३४॥ अथ दण्डं कुर्वतः स्थित्यनुभागयोविनाशं दर्शयति
ठिइसंतस्स असंखंसा ठिइखंडेण णासइ रसं तु। घायेइ बहुअणंतंसमितं अणुभागखंडेणं ॥२३५॥ स्थितिसत्त्वस्या-ऽसंख्यांशान स्थितिखण्डेन नाशयति रसं तु ।।
घातयति बह्वनन्तांशमितमनुभागखण्डेन ॥२३५।। इति पदसंस्कारः । 'ठिइसंतस्स' इत्यादि, 'स्थितिसत्वस्य' वेदनीयादिकर्मणां स्थितिसत्तायाः 'असंख्यांशान' असंख्येयभागान स्थितिखण्डेन 'नाशयति' विधातयति. वेदनीयादिकर्मणां स्थितेरसंख्येयभागान् कृत्वैकमसंख्येयभागं तत्रैव विमुच्य बह्वसंख्येयभागान् स्थितिखण्डेन घातयतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org