________________
दावस्थायां रसवातः ]
[ ४५९
'रसं' इत्यादि, रसं त्वनुभागसचस्य बह्वनन्तांशमितमनुभागखण्डेन घातयति । इदमुक्त' भवति-अशुभकर्मणां सत्तागताऽनुभागस्याऽनन्तान् भागान् कृत्वैकानन्ततमभागप्रमितमनुभागं तत्रैव परित्यज्य वह्ननन्तभागमात्र मनुभागमनुभागखण्डेन विनाशयति । यदुक्तमावश्यकचूर्णौ" तस्येदानीं मनुष्याऽवस्थायां या पल्योपमा ऽसंख्येय भागमात्रा कर्मत्रयसत्ककर्मस्थितिरवतिष्ठते, सा बुद्धया असंख्येयभागाः क्रियन्ते, ततः प्रथमसमये दंडक - कारक ( : ) सत्कर्मस्थितेरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवः, स बुद्धया अनन्तभागाः क्रियन्ते, ततोसद्य न्यग्रोध- साति-कुञ्ज- वामन हुंडसंस्थान-वज्रनाराच नाराचाऽर्धनाराच - कोलिका-संप्राप्तपाटिकासंहनना-Sप्रशस्त वर्ण- गन्ध-रस-स्पर्शोपघाता-S-प्रशस्त विहायोगत्य पर्याप्तकाऽस्थिराऽशुभ- दुभंग- दुःस्वराऽनादेयाऽयशः कोर्त्ति-नोचैर्गोत्रसंज्ञिकानां पञ्चविंशतेरप्रशस्तानां प्रकृतीनां प्रथमसमये दंडककार का ( को ) नुभवस्याऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते ।" इति
तथैव कषायप्राभृतचूर्ण्यामप्यशुभप्रकृतीनामनुभाग वातो दर्शितः । अक्षराणि त्वेवम् - "पढमसमए दंडं करेदि । तम्हि ठिदोए असंखेजे भागे हणइ । सेसस्स च अणुभागस्स अप्पसत्थाणमणंते भागे हणदि ।" इति ।
सयोगिगुणस्थानाद्धाधिकार:
आवश्यकचूर्णिकारादयस्तु प्रशस्तानामध्ये कोनचत्वारिंशत्कर्मणामनुभागोऽप्रशस्त प्रकृत्यभागमध्ये प्रवेशेन घात्यत इति मन्यन्ते । तथा च तद्द्व्रन्थः- “ तत्सामयिकमेव सह द्य-मनुष्यदेवगति पञ्चेन्द्रियजातयौदारिक-वैक्रियाSSहारक-तैजस-कार्मणशरीर-समचतुरस्रसंस्थानौदारिक-वैक्रियका--SSहारकशरोराङ्गोपाङ्गवज्रर्षभनाराचसंहनन-प्रशस्तवर्णगन्ध-रस स्पर्श मनुष्यदेवगतिप्रायोग्या - SSनुपूर्व्यगुरुलघु-परावाता - SSतपोद्योतोच्छ्रवास - प्रशस्त विहायोगति त्रस बादर-पर्याप्त - प्रत्येकशरीर स्थिर - शुभ-सुभगसुस्वissदेय - यशः कीर्त्ति निर्माण - तोर्थकरोच्चैर्गोत्रसंज्ञिकानामेकोनचत्वारिंशतः प्रशस्तानामपि योऽनुभवः, तस्याऽप्रशस्तप्रकृत्यनुभवधाता ऽनुप्रवेशेनैव घातनं ज्ञेयम्, समुद्घातमाहात्म्यमेतद् ।” इति ।
नन्वेकोनचत्वारिंशच्छुभप्रकृतिषु मध्य आतपोद्योतयो ग्रहणं व्यर्थम्, अनिवृत्तिकरणे तयोः क्षयस्यै कोनचत्वारिंशत्तमगाथया प्रतिपादितत्वादिति चेत्, उच्यते - कार्मग्रन्थिकाभिप्रायेण तत्र तयोः क्षीणत्वेऽप्यावश्यक नियुक्तिकाराद्यभिप्रायेण न तयोस्तत्र क्षयो जातः, तदभिप्रायकमिह तयोर्ग्रहणम्, न तु कार्मग्रन्थिका -ऽभिप्रायकम् । तेन तयोर्ग्रहणं न व्यर्थम् । पूर्वत्र तु पञ्चविंशत्यशुभप्रकृतिषु मध्येऽप्रशस्त विहायोगत्यपर्याप्तनामकर्मणोग्रहणं कार्मग्रन्थिकाऽभिप्रायकम् आवश्यकनियुक्तिकाराद्यभिप्रायेणाऽनिवृत्तिकरण एव तयोः
Jain Education International
-
,
For Private & Personal Use Only
www.jainelibrary.org