________________
४६० ]
खवगढी
[ गाथा- २३६
क्षयस्यैकोनचत्वारिंशत्तमगाथायाष्टीकायां दर्शितत्वात् । इत्थमेकत्रा -ऽऽतपोद्यतयोरन्यत्र चाऽप्रशस्तविहायोगत्यपर्याप्तनामकर्मणोग्र हणेनावश्यकचूर्णिकृता मतदयं ज्ञापितमित्यस्माकं प्रतिभाति । तच्चं तु केवलिनो बहुश्रुता वा विदन्ति ।
स्थितिघातो रसघातश्च प्रतिसमयं भवति, न तु प्रत्यन्तमुहूर्तम् । एवं स्थितिघातरसघातौ तावद्वक्तव्यौ, यावत् समुद्घातस्य पञ्चमसमयः कषायप्राभृतचूर्णिकारमतेन तु यावच्चतुर्थसमयः ।। २३५ ।।
अथ समुद्घातकरणस्य द्वितीयसमये कार्यविशेषं जिज्ञापयिपुराहबीयसमये कवाडे वित्थारइ बहुअसंखभागमिआ । जीaurसा ठिघाओ रसघाओ य पुव्वव्व ॥ २३६॥
द्वितीयसमये कपाटे विस्तारयति बहसंख्यभागभितान् । जीवप्रदेशान् स्थितिघातो रसघातश्च पूर्ववत् ||२३६|| इति पदसंस्कारः |
'बोयसमये' इत्यादि, 'द्वितीयसमये' समुद्घातस्य द्वितीयस्मिन् समये प्राङ्मुक्ताऽसंख्येयभागस्य बहुसंख्य भागमितान् 'जीवप्रदेशान्' आत्मप्रदेशान् कपाटे विस्तारयति । इदमुक्तं भवतिदण्डं कुर्वता प्रथमसमये ये-ऽसंख्येयभागमात्राः प्रदेशा विमुक्ताः तेषामसंख्येयभागान् कृत्वैका-संख्येयतमभागं तत्रैव शरीरे परित्यज्य शेषान् ब्रह्वसंख्येयभागभावानात्मप्रदेशान् निष्क्रमयति । तेन प्रथमसमये निष्क्रमितप्रदेशतो द्वितीयसमये निष्क्रम्यमाणप्रदेशा असंख्येयगुणहीना भवन्ति । तानिष्क्रमितान् जी प्रदेशान् पूर्वपश्चिम दिशोदक्षिणोत्तरदिशयोर्वा प्रसारयन् पार्श्वतो लोकान्तगामिनं कपाटं करोति । उक्तञ्चाssवश्यकचूर्णी- “अथ कपाटकरणे को विधिरिति प्रश्न ब्रूमहे, अतः प्रथमसमयनिर्गतात्मप्रदेश सकाशात् यो ऽसंख्येय भागोऽवतिष्ठते इत्युक्त, स बुडा पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्येया भागा निष्क्रामंति, असंख्येयभागोऽवतिष्ठते, अनेकैर संख्येयैर्भागैर्निर्गतैरेतैः कपाटकं कुर्वन्ति । तत्र ये निर्गतास्ते प्रथमसमय निर्गतात्मप्रदेशसकाशात् असंख्येयगुणहीना असंख्येयभाग इत्यर्थः । " इति ।
कपाटस्थोऽपि लोकस्याऽसंख्येयभागमात्रं क्षेत्रं व्याप्नोति, किन्तु दण्डस्थजीवस्य क्षेत्रतः कपाटस्थस्य क्षेत्रमसंख्येयगुणं भवति, दण्डवाहन्यतः कपाट वाहन्यस्याऽसंख्येपगुणत्वात् ।
अत्र प्रेरको भणति ननु प्रथमसमयतो द्वितीयसमये ऽसंख्येयगुणं क्षेत्रमसंख्य गुणहीना जीवप्रदेशाः कथं व्याप्तुमर्हन्ति ? इति उच्यते द्वितीयसमये पूर्वपश्चिम दिशेोर्दक्षिणोत्तर दिशयोर्वा यथा शरीरावच्छिन्नदण्ड क्षेत्रतो जीवप्रदेशा विस्तृणन्ति तथा शरीराऽनवछिन्नदण्डक्षेत्रतोऽपि । तत्र तदानीं शरीरावच्छिन्नदण्डगता - ऽवगाहनातो निर्गत्य ये प्रदेशा पूर्वपश्चिम दिशोर्दक्षिणोत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org