________________
कपाटावस्थायां स्थितिघातरसघातौ ] सयोगिगुणस्थानाद्धाधिकारः
[ ४६१
दिशयोर्वा विस्तृणन्ति, ते प्रथमसमये स्वशरीरतो निर्गत्य दण्डाकारेण संस्थितेभ्यः प्रदेशेभ्योऽसंख्यातगुणहीना भवन्ति, यतः प्रथमसमये शरीरगतजीवप्रदेशानां बह्रसंख्येय भागमात्रा दण्डात्मक क्षेत्रं व्याप्ताः, द्वितीयसमये तु प्रथमसमयमुक्तैका संख्येयभागस्य बह्वसंख्येवभागप्रमिता जी प्रदेशा शरीरतो विनिर्गताः । किन्त्वनु श्रेणिगमनादुपर्यधश्च शरीरा ऽनवच्छिन्नदण्ड गताऽवगाहना तो -ऽपि निर्गत्य प्रदेशाः प्रभूतं कपाटक्षेत्रं व्याप्नुवन्ति, ते च प्रभूताः । इत्थं प्रथमसमयतो द्वितीयसमये शरीरतो निष्क्रम्यमाणानामपूर्वाणां जीवप्रदेशानामसंख्येयगुणहीनत्वेऽपि न विरुध्यतेऽसंख्येयगुण क्षेत्रस्य व्यापनम् । एवमग्रे ऽपि ।
ra aur at महात्मनो स्थितिघातं रसघातं चाऽतिदिदिक्षुराह - 'ठिइघाओ' इत्यादि, स्थितिघातो रसघातश्च पूर्ववद् भवतः । अयं भावः - प्रथमसमये या संख्येयभाग प्रमाणा स्थिति: परित्यक्ता, तस्या असंख्येयभागान् कृत्वैकमसंख्येयभागं सत्कर्मणि विमुच्य बहसंख्येयभान् विनाशयति कपाटस्य कारकः । तथा प्रथमसमये योऽनन्ततमभागप्रमाणोऽनुभागः सत्कमणि परित्यक्तः, तस्याऽनन्तभागान् कृत्वैकमनन्ततमभागं सत्कर्मणि परित्यज्य बह्वनन्तभागान् विनाशयति । न्यगादि चाssवश्यकचूर्णी - "अथ द्वितीयसमये कपाटकारकस्य स्थित्यनुभावघाने को विधिरिति प्रश्नेऽभिदध्महे प्रथमसमयघातित सत्कर्मस्थितेः सकाशात् योऽसंख्येय भागोऽवतिष्ठते इत्युक्त असावपि बुडा पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारको ऽप्यसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, ततो ऽनुभवस्यापि प्रथमसमयघातनानुभवसकाशात् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठत इत्युक्तं, असावपि बुद्धया पुनरनन्तभागाः क्रियन्ते, तस्य कपाटकारोऽनन्तान् भागान् हन्ति, पुनरनन्तभागोऽवतिष्ठते ।” इति । तथैव कषायप्राभृतचूर्णावपि - " तदो विदियसमए कवाडं करेदि । तम्मि सेसिगाए ठिदीए असंखेज्जे भागे हणइ । सेसस्स च अणुभागस्स अप्पसत्थाणमणंते भागे हणइ ।” इति । आवश्यकचूर्णिकृदादयो महर्षयस्तु कपाटं कुर्वन् शुभप्रकृतीनामप्यनुभागमशुभप्रकृत्यनुभागघातनाऽनुप्रवेशनेन घातयतीति मन्यन्ते । अक्षराणि त्वेवम्“अयमपि चाऽप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयम् ।" इति ।। २३६ ॥
एतर्हि समुद्घातस्य तृतीयसमये प्रतरं कुर्वतः क्रियाविशेषं दर्शयति
Jain Education International
―――
तइयसमये बहुअसंखभागमेत्ता - ऽप्पणो पसा य । वित्थारह पयरे ठिइरसाण घाओ उ पुव्वव्व ॥ २३७॥
For Private & Personal Use Only
www.jainelibrary.org