________________
४५२ ]
arrat
[ गाथा--२३२-२३३
केवलिनः । ननु समुद्धात इति कः शब्दार्थः ? इति चेत्, उच्यते-सम्यक् = अपुनर्भावेन उत् = प्राबल्येन घातो - वेदनीयादीनां कर्मणां हननं विनाशो यस्मिन् प्रयत्नविशेषे, स सद्घात इत्युच्यते, अथ व्युत्पच्यन्तरं दर्श्यते - सं= सामस्त्येन उत्- प्राबल्येन घातो - हननं शरीराद् बहिर्जीव प्रदेशानां निस्सारणमिति समुद्घातः, “हनंकू हिंसागत्योः" इति हनुधातोर्गत्यर्थकत्वाद् निस्सारणस्य चाऽपि गतिविशेषत्वात् । अयं भावः - प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं जीवप्रदेशानामूर्ध्वमधस्तिर्यक् शरीराद् बहिर्निस्सारणं समुद्धात उच्यत इति यावत्, यथा चा-ऽऽर्द्राशाटिका विस्तारिता सती क्षिप्रं शुभ्यति, तथैव विस्तारितानां जीवप्रदेशानां कर्मोंदकं शीघ्रं शुष्यति, यदुक्त श्रीभद्रबाहुस्वामिभिः
" नाऊण वेअणिजं अइबहुअं आउअं च थोवागं । गंतॄण समुग्धायं खवंति कम्मं निरवसेसं ॥१॥
जह उल्ला साडोआ आसु सुकइ विरल्लिआ संती |
तह कम्मलहुअसमए वच्चंति जिणा समुग्धायं || २ ||" इति । तथैवाssवश्यकचूर्ण्यमपि - " सिग्धं कम्मं खविज्जति तो समुग्धाओ समो आयुषो कर्मणां उद्घातः समुद्घातः सव्वे जीवपदेशे विसारेति ।" इति । एवम
न्यत्राऽप्युक्तम्
"आयुषि समाप्यमाने शेषाणां कर्मणां समाप्तिः । न स्यात् स्थितिवैषम्याद् गच्छति ततः समुद्घातम् ॥ १॥ स्थित्या च बन्धनेन च समोक्रियार्थं हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे तदा-SSयुषि समुज्जिघांसति सः ॥ २ ॥ आर्द्र विरल्लितं सद् वस्त्रं मङ्क्ष्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मणां मूर्त्तत्वात् ॥ ३ ॥” स्नेहक्षयसाम्यात् ( स्थितिबन्धहेतुर्हि) स्नेहः स च होयते समुद्घातात् । क्षीणस्नेहं शटति हि, भवति तदल्पस्थिति च शेषम् ॥४॥ आयुष्कस्याऽपि विरल्लितस्य न हास्यते स्थितिः कस्मात् । इति वा चोयं चरमशरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ॥५॥” इति । येषां महात्मनामायुष्ककर्मतो वेदनीयमधिकस्थितिकं भवति, ते नियमात् समुद्घातं कुर्वन्ति, येषां पुनरायुष्ककर्मणा सह स्वभावत एव समस्थितिकानि वेदनीयादिकानि कर्माणि जायन्ते, ते समुद्घातं न कुर्वन्ति । न्यगादि चाssवश्यकचूर्णौ - " येषां बहु सदेयमस्ति, आयुचाल्पमवतिष्ठते, ते नियमात्समुद्घातं कुर्वन्ति नेतर इति । ” अतीतकालेऽनन्त केत्रलिनः समुद्घातमकृत्वा सिद्धिं प्राप्ताः, यदुक्तं प्रज्ञापनासूत्रे -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org