________________
आवर्जीकरणम् ] सयोगिगुणस्थानाद्धाधिकारः
[ ४५१ विशुद्धितारतम्यहेतोः शुभयोगव्यापारविशेषस्य सिद्धौ शुभयोगव्यापारविशेषादावर्जीकरणे विशिष्टा प्रदेशोदीरणा निराबाधा सिध्यति । ततश्च युज्यत एव निरुक्त आवर्जशब्दार्थः ।
नन्वेवं ताव करणं कुर्वन्नुदयावलिकायां कर्मदलं क्षपति, ततश्चैवा-ऽऽयुषा सह समानानि शेषकर्माणि भविष्यन्ति, किं वक्ष्यमाणेन समुद्घातेनेति वाच्यम् , आवर्जीकरणे विशिष्टप्रदेशोदीरणासद्भावे-ऽपि तादृशविशिष्टस्थितिघातादीनां समुद्घातेन विना-ऽनुपपत्तेः ।
इदं चा-ऽऽवर्जीकरणमान्तमुहृर्तिकं भवति, यदुक्त श्रीप्रज्ञापनासूत्रे-“कइसमइए णं भंते ? गोयमा ! असंखेजसमइए अंतोमुहुत्तिए आउन्जीकरणे पन्नत्ते ।” इति ।।
न च प्रज्ञापनादिष्वावर्जीकरणस्य कालोऽभिहितः, किन्तु य आचार्या आयोजिकाकरणादिकं करोतीति अवते, तेषां मतेना-ऽऽयोजिकाकरणादिकालः कियद्भवति ? इति न निश्चीयत इति वाच्यम् , शब्दभेदेन भेदेऽप्यर्थभेदाऽभावात् । न च "तं गंतुमणो पुव्वं आवज्जीकरणमब्भेइ ।” इति वचनात् केवलिसमुद्घातकारिण एव जीवस्या-ऽऽवर्जीकरणं भवति, न त्वन्येषां जीवानामिति समस्त्यर्थभेदोऽपीति वाव्यम्, तादृशवाक्यानां तादृशनियमपरत्वे मानाऽभावात् , प्रत्युत-ननु यदि सर्वोऽपि केवल्यावर्जीकरणं कुरुते, तर्हि समुद्घातस्य कारकः किं पूर्वमावर्जीकरणं कुरुते, उत समुद्घातमित्याशङ्काव्युदासाय समुद्घातात् प्रागावर्जीकरणं करोतीति नियमप्रदर्शनपरत्वस्य तादृशवाक्यानां समर्थनीयत्वात् ।
निरुक्तकरणप्रथमसमये नाम-गोत्र-वेदनीयानां प्रदेशाग्रमुत्कीर्योदयनिषेके स्तोकं निक्षिपति । ततो द्वितीयनिषेके-ऽसंख्येयगुणं प्रदेशाग्र प्रक्षिपति । एवं तावद्वक्तव्यम् , यावत् शेषसयोगिगुणस्थानकाला-ऽयोगिगुणस्थानकालतो विशेषाधिके काले गुणश्रेणिशिरः प्राप्यते । अयं च गुणश्रेणिनिक्षेपः प्राक्प्रतिपादितसयोगिगुणश्रेणिनिक्षेपतः प्रदेशाग्रमाश्रित्या-ऽसंख्येयगुणम् , कालं प्रतीत्य पुनः संख्यातगुणहीनो भवति, यतः सयोगिगुणश्रेणितो-ऽयोगिगुणश्रेणिः प्रदेशानश्रित्या-ऽसंख्येयगुणा, कालं प्रतीत्य पुनः संख्यगुणहीना भवति । गुणश्रेणिशिरस्तः परमुपरितन एकस्मिन्निषेकेऽसंख्यातगुणं दलं प्रक्षिपति, तत उर्ध्व विशेषहीनक्रमेण प्रक्षिपति । एवमयोगिगुणस्थानकस्य गुणश्रेणिं निरुक्तकरणकाले विरचयति, अयोगिगुणस्थानके तु केवलं प्रतिसमयमसंख्येय गुणं निर्जरयति । यदुक्तं प्रज्ञापनावृत्तौ श्रीमडरिभद्रसूरिपादैः-तेषु च शैलेषोसमयेषु 'पुव्वरइयं चणं कम्मं तिआउज्जोकाले चेव गुणसेढो करेति।" इति ।
उक्तकरणं विधाय केवलिसमुद्घातमारभते, तं विवर्णयिषुराह-'तओ' इत्यादि, 'ततः' उक्तकरणसम्पादनानन्तरं सयोगिकेवली समुद्घातं करोति, कः ? इत्याह-'जस्सा०' इत्यादि, यस्य सयोगिकंवलिनः 'आयुष्टः' आयुष्ककर्मतः तृतीयादीनि' वेदनीयादीनि कर्माणि 'प्रभूतानि' अधिकस्थितिकानि भवन्ति, स समुद्घातं करोति, न त्वायोजिकाकरणवत् सर्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org