________________
क्षीण कषायगुणस्थान झम् ] असंगतकषायाद्धाधिकारः
[ ४१९ तदेवं समाप्तः षष्ठोऽधिकारः । तत्समाप्तौ च समाप्तो मोहनीयक्षपणाविधिः । मोहनीये च क्षीणे परेसां कर्मणां विनाशोऽवश्यंभावी । यदुक्त श्रीतत्त्वार्थसूत्रभाष्यकारैः
"पूर्वार्जितं क्षपयतो यथोक्तः क्षयहेतुभिः । संसारबोजं कार्येन मोहनीयं प्रहीयते ॥१॥ ततोऽन्तरायज्ञानघ्न-दर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रोणि कर्माण्यशेषतः ॥२॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति ।
तथा कर्म क्षयं याति मोहनोये क्षयं गते ॥३॥” इति । तेन शेषाणां त्रयाणां घातिकर्मणां क्षपणप्रक्रियां दिदर्शयिषुः सप्तमा-ऽधिकारं विवर्णयति
सेकालेऽवगयकसायगुणं लहए स पत्तहक्खायो। ठिइरसरहियं तइयं बंधइ पयइप्पअसेहिं ॥२२४॥ अनन्तरकाले-ऽपगतकपायगुणं लभते स प्राप्ता-ऽथाख्यातः । स्थितिरसरहितं तृतीयं बध्नाति प्रकृतिप्रदेशाभ्याम् ।।२२४।। इति पदसंस्कारः 1
'सेकाले' इत्यादि, 'अनन्तरकाले' मोहनीयनिश्शेषक्षयानन्तरसमय इत्यर्थः 'स' जितमोहः क्षपकः 'प्राप्ता-ऽथाख्यातः' मोहनीयपरिक्षयात् प्राप्त लब्धम् अथाख्यातम् अथशब्दोऽत्र याथातथ्ये, आङ् अभिविधौ, आ समन्ताद् याथातथ्येन-कवायोदयाभावेन निरतिचारत्वात् पारमार्थिकरूपेग ख्यातं तदथाख्यातं येन, स प्राप्ता-ऽथाख्यातः, 'अपगतकक्षायगुणं' पदैकदेशे पदसमुदायस्योपचाराद् अपगतकपायगुणस्थानकं क्षीणमोहगुणस्थानकमित्यर्थः, 'लभते' अश्नुते । ननु प्राप्तक्षीणकषायगुणस्थानकः किं करोति ? इत्यत आह-ठिइ०' इत्यादि, स्थितिरसरहितं 'तृतीयं सातवेदनीयकर्म प्रकृतिप्रदेशाभ्यां बध्नाति, तद्वन्धस्य योगनिमित्तकत्वात् । इदमुक्तं भवति-स्थितिबन्धो रसबन्धश्च कषायप्रत्ययौ । क्षीणकषायगुणस्थानके च कषायाभावात् स्थितिरसौन बध्यते । प्रकृतिवन्धः प्रदेशबन्धश्च योगप्रत्ययौ । क्षीणकषायगुणस्थानके च गात्रसचारादिरूपयोगसद्भावात् सातवेदनीयस्य प्रकृतिवन्धः प्रदेशबन्धश्च जायते । अयं च सातवेदनीयबन्ध ईर्यापथिककर्मबन्ध उच्यते । अयम्भाव:-"ईर गतिप्रेरणयोः” इत्यस्माद् भावे ध्यण्प्रत्ययः, ईरणम्-ईर्या=गमनम् , तस्यास्तया वा पन्थाः ईर्यापथः, तत्र भवम् ईर्यापथिकम् । व्युत्पत्तिनिमित्तमेतद्, यतस्तिष्ठतोऽपि तद्भवति । प्रवृत्तिनिमित्तं तु गात्रसश्चरादिरूपेण योगेन यत्कर्म बध्यते, तदीर्यापथिकम् , योगनिमित्तकमित्यर्थः । तच्च प्रथमसमये बध्यते,कषायाभावेन स्थित्यभावाद् द्वितीयसमये वेद्यते,तृतीयसमये चा-ऽकर्मतामेति । तच्च प्रकृतितः सातवेदनीयं भवति, स्थितितो द्विसमयस्थितिकमनुभावतोऽनुत्तरोपपातिकसुखातिशायि,प्रदेशतश्चः स्थूल रूक्ष-शुक्ल-मन्द-महाव्यय-बहुप्रदेशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org