________________
४२० ]
[ गाथा-२२४
तथा चोक्तम् आचाराङ्गटीकायां श्रीमद्भिः शोलाङ्गाचार्यपादैः - " तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म्म बध्यते, तदोर्यापथिकम् - ईर्याप्रभवम्, ईर्याहेतुकमित्यर्थः तच्च द्विसमयस्थितिकम्, एकस्मिन् समये बद्धं द्वितीयसमये वेदितं तृतीयसमये तदपेक्षया चाऽकर्मतामेति । कथमिति ? उच्यते यतस्तत्प्रकृतितः सातवेदनोयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटत्ति, अनुभावतोSनुत्तरोपपातिक सुखातिशायि, प्रदेशतः स्थूलरूक्ष शुक्लादिबहुप्रदेशमिति । " इति । तथैव सूत्रकृताङ्गवृत्तावपि - "याऽसावकषायिणः क्रिया, तया यद् बध्यते कर्म, तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृत्वा तत्क्रियैव बडस्पृष्टेत्युक्ता तथा द्वितीयसमये वेदितेत्यनुभूता, तृतीयसमयेऽतिजीर्णा । एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य साम्परायिकस्येव स्थितिः, किन्तु योगसद्भावाद् बध्यमानमेव स्पृष्टतां संश्लेषं याति । द्वितीयसमये त्वनुभूयते तच्च प्रकृतितः सातवेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभा. नुभावमनुत्तरोपपातिकदेवसुखातिशायि, प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं
च ।" इति ।
aarat
तथा श्रीमच्छीलाङ्गाचार्यैरोर्यापथिककर्मप्रतिपादिकेयं गाथा दर्शिता - "अप्पं बायरमउयं बहु च लुक्खं च सुकिलं चैव । मंदं महव्वतं ति य सातबहुलं तं कम्मं ॥ १ ॥ "
अथास्य अर्थः प्रतिपाद्यते - ईर्यापथिककर्म सातावेदनीयं 'अप्पं' ति 'अल्यं' स्तोकं स्थितितः कषायभावेन स्थितिबन्धस्या- योग्यत्वात् प्रथमसमये कर्मरूपेण परिणतस्य द्वितीयमये वेदितस्य तृतीयसमये चाऽकर्मतामापन्नस्याऽल्पत्वमुच्यत इत्यर्थः । बादरं = स्थूलं परिणामतः, तथाविधसूक्ष्मपरिणामविरहात् । न चाऽनुभागतो बादरं कुतो न भण्यते, सूक्ष्मसम्परायतोऽनन्तगुणविशुद्धेरुपलम्भाद् ? इति वाच्यम्, कपायाभावेन तत्प्रत्यया ऽनुभागबन्धस्या
ऽभावात् ।
नन्वेवं तर्हि कार्मणवर्गणास्कन्धाः कर्मत्वेन परिणमनकाले सर्वजीवाऽनन्तगुणाऽनुभागका भवन्ति, अन्यथा कर्मत्वेन परिणत्यनुपपत्तेरिति । तत् कथमुपपद्यताऽनुभागबन्धाभावः ? इति चेत्, भण्यते - इह जघन्यानुभागबन्धस्थानजघन्यवर्गणातोऽनन्तगुणहीनरस विशिष्टकार्मणवर्गणास्कन्धानामपि बन्धो न विरुध्यते,यतो यद्यपीर्यापथिककर्मणो जघन्यानुभागबन्धस्थानाद्यवर्गणातोऽनन्तगुणनरसता भवति, केवलयोगप्रत्ययत्वात्, तथापि नामप्रत्ययोत्कृष्टवर्गणातो योगप्रत्ययाद्यस्पर्धकाद्य वर्गया अनन्तगुणत्वादीर्यापथिककर्मस्कन्धाः सर्वजीवानन्तगुणरसाऽविभागकाः । उक्तञ्च कर्मप्रकृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org