________________
ईर्या पथिककर्मनिरूपणम] अपगतकषायाद्धाधिकारः
[४२१ तिचूनिटिप्पनके श्रीमुनिचन्द्रसूरिपादैः-"तत्र च योऽकषायावस्थाभावी, तस्य जघन्यस्पर्धकायवर्गणाऽपि नामप्रत्ययिकस्पर्धकोत्कृष्टवर्गणातोऽनन्तगुणरसाविभागा, कषायप्रत्ययिकसर्वजघन्यानुभागस्थानकजघन्यस्पर्धकाद्यवर्गणातः पुनरनन्तगुणहोनरसाविमागा, तुच्छरसत्वाद् योगप्रत्ययिकबन्धस्य ।" इति । कपायप्रत्ययजघन्यरसबन्धस्थानतथाऽस्य बन्धस्याऽनन्तगुणहीनत्वात् कायप्रत्ययानुभागवन्धरहितत्वाचाऽनुभागबन्धो नास्तीति भणितम् । अत एव यथा स्थित्वपेक्षयर्यापथिककर्माऽल्पं भणितम् , तथा रसाऽपेक्षयाऽप्यल्पं बोध्यम् । उक्तश्च कर्मप्रकृतिचूर्णिटिप्पनके-“अल्पं स्तोकं कषायाभावेन तत्प्रत्ययस्थित्यनुभागापोढतया अल्पस्थित्यनुभागत्वात् । तथाहि-तत्कर्म प्रथमसमये बडम्, द्वितीयसमये वेदितं तृतीयसमये निर्जीयत इति। अनुभागतस्तु कषायप्रत्ययसर्वजन्यानुभागस्थानस्य सर्वजघन्यस्पर्धकादप्यनन्तगुणहोनरसमिति ।” इति ।
'म उअं' ति मृदु अनुभावतः, मृद्वनुभावकमित्यर्थः । उक्तश्चाचाराङ्गवृत्तौ-“बादरं परिणामतोऽनुभावतो मृहनुभावम् ।” इति । यद्वा स्वरूपदर्शकं विशेषणमिदं मृदुस्पर्शप्रतिपादकम् , तैजसवर्गणाया उपरितनकार्मणादिवर्गणागतपुद्गलेषु मृदुस्पर्शस्याऽवस्थितिदर्शनात् । उक्त च वर्गणाधिकारे श्रीमदुपाध्यायपादैः-'तत्र मृदुलघुरूपौ हौ स्पर्शाववस्थितौ”। इति । न चैतद् व्याख्यानमसिद्धमिति वाव्यम् , ग्रन्थान्तरेऽपि तथाव्याख्यातत्वात् । उक्तं च कर्मप्रकृतिचूर्णिटिप्पनके "मृदु, कर्कशादिस्पर्शाभावेन ।” इति ।
___'बहुअं ति बहु प्रदेशतः । इदमुक्त भवति-सकषायजीवैर्बध्यमानसातवेदनीयप्रदेशतः संख्यातगुणाः प्रदेशाः क्षीणमोहप्रभृतिगुणस्थानके बध्यन्ते, सातवेदनीयरूपस्यैकस्यैव कर्मणो बध्यमानत्वेन सर्वेषां गृह्यमाणप्रदेशानां सातवेदनीयरूपत्वात् सकषायगुणस्थानकेषु तु यथासंभवमष्टानां सप्तानां पण्णां कर्मणां बध्यमानत्वेन प्रदेशानां यथाविभागं तत्तत्कर्मरूपेण परिणम्यमानत्वात् क्षीणकषायादिगुणस्थानकापेक्षया तत्र वेदनीयप्रदेशानां स्तोकत्वोपलम्भात् । इत्थं सकपायप्रदेशबन्धतो-ऽकषायसातवेदनीयप्रदेशबन्धस्य संख्यातगुणत्वाद् ईर्यापथिककर्मणो बहुत्वं सुनिरूपितं भवति । चशब्दोऽनुक्तसमुच्चयार्थकः, तेन सुगन्धि सुच्छायं चेत्यपि ज्ञातव्यम् । 'लक्खं' ति रूक्षं स्पर्शतः, चिरकालावस्थानगुणाऽननुगतत्वात् । 'मुक्किलं' ति शुक्लं वर्णतः, ईयोपथिककर्मस्कन्धाः शुक्लवर्णा भवन्तीत्यर्थः । एवकारोऽवधारणे, स च सर्वत्र सम्बन्धनीयः, ततोऽल्पमेव बादरमेवेत्यवं सर्वत्र विपक्षक्षेपो द्रष्टव्यः । 'मंद' ति मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुडयापतितलेपवत् । 'महव्वतं' ति महाव्ययम् , एकसमयेनैव सर्वप्रदेशानां निःशेषतो निर्जीर्णत्वदर्शनात् । 'सातबहुलं' ति सातबहुलमनुत्तरोपपतिकसुखातिशायित्वात् ॥२२४॥ ___ अथ क्षीणकषायगुणस्थानके स्थितिघातादीन् विवर्णयिषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org