________________
४२२ ]
arrat
होज्जा पुव्वव्व छकम्माणं ठिइरसविधायगुणसेढी । दलिअं पडुच्च गुणसेदिनिज्जरा उण असंखगुणा ॥२२५॥
[ गाथा--२२५-२२३
Jain Education International
भवन्ति पूर्ववत् षट्कर्मणां स्थितिरसविवातगुणश्रेणयः ।
दलिकं प्रतीत्य गुणश्रेणिनिर्जरा पुनरसंख्यगुणा ||२२५|| इति पदसंस्कारः |
'होज्जा' इत्यादि, तत्र 'षट्कर्मणां ' ज्ञानावरण - दर्शनावरणान्तराय वेदनीय- नाम- गोत्राणां 'स्थितिर सविघातगुणश्रेणयः' स्थितिघातो रसघातो गुणश्रेणिश्च पूर्ववद् भवन्ति । इदमुक्त भवति - क्षीणकषायगुणस्थानके त्रयाणां घातिकर्मणामन्तर्मुहूर्तप्रमाणं स्थितिखण्डं घातयति, अनुभागखण्डेन पुनः सत्तागताऽनुभागस्य बह्वनन्तभागान् घातयति । तथा नाम - गोत्र-वेदनीयानां स्थितिखण्डम संख्यातवर्षप्रमाणं घातयति, तथा तेषामेवा - शुभप्रकृतीनां सत्तागताऽनुभागस्य बह्वनन्तभागाननुभागखण्डेन विनाशयति । तथा स्थितिघातं कुर्वन् प्रदेशाग्रमुत्कीर्योकी - र्णदलस्याऽसंख्येयभागप्रमाणं दलं गृहीत्वोदयनिषेके स्तोकं दलं ददाति, ततो ऽसंख्येयगुणं द्वितीयनिषेके ददाति । ततो-पि तृतीयनिषेके ऽसंख्येयगुणं निक्षिपति । एवमसंख्येयगुणक्रमेण तावत् प्रक्षिपति यावत् क्षीणक पायगुणस्थानकतो विशेषाधिकाद्वायां गुणश्रेणिचर मनिषेकलक्षणगुणश्रेणिशिरः । ततो बहसंख्येयभागमात्रदलाद् दलमादाय गुणश्रेणि चरमनिपेकतो ऽसंख्येयगुणं दलं गुणणिशिरस उपरितने प्रथम निषेके प्रक्षिपति, । ततो विशेषहीनक्रमेण तावददाति, यावदतीत्थापनाप्राप्ता भवति । शेषाघातिकर्मणां प्ररूपणाऽस्मत्कृतोपशमनाकरणटीकायां दर्शनमोहक्षपणाधिकारे प्रतिपादितसम्यक्त्वमोहनीयक्षपणावदवसेवा, विशेषाभावात् ।
1
अथ सूक्ष्मम्परातो गुणश्रेणी विशेषं दर्शयति- 'दलिअं' इत्यादि, 'दलिक' प्रदेशात्र 'प्रतीत्य ' आश्रित्य ' गुणश्रेणिनिर्जरा' सूक्ष्मसम्परायचरमसमयभाविगुणश्रेणिनिर्जरातः क्षीणकपायप्रथमसमयभाविगुणश्रेण्या कर्मप्रदेशानां परिशाटनम् 'असंख्यगुणा' असंख्येयगुणं भवति, पुनर्वाक्यभेदे, यदुक्तं तत्त्वार्थ सूत्र - "सम्यग्दृष्टि-श्रावक-विरता-ऽनन्तवियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपक-क्षीणमोह-जिनाः
क्रमशोऽसंख्येयगुणनि
र्जराः ।” इति । ॥ २२५॥
उक्तविधिना तावद् निरूपणीयम् यावत् क्षीणकषायगुणस्थानकस्य बहुसंख्येयभागा गता भवन्ति । तत एकस्मिन् संख्येयतमभागे शेषे यद्भवति तदर्शयितुकाम आह— सेसम्म संखभागे खीणकसायरस हणइ झाणेण । अन्तिमखंडेणं तस्स उवरिमठिहं तिघाईण || २२६ ॥
शेषे सङ्ख्यभागे क्षीणकषायस्य हन्ति ध्यानेन । अन्तिमखण्डेन तस्योपरितनस्थि त्रिघातिनाम् ॥ २२६॥ इति पदसंस्कारः ।
For Private & Personal Use Only
www.jainelibrary.org